Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
а
.
.
शनिश्चया ॥ १३-१५॥ सर्वमर्थ च दार्शता सुग्रीवसख्यप्रभृतिसर्वमयं च बोधिता ॥ १६॥ समुदाचारः परपुरुषाचिन्तकत्वादिः । त्वाय भक्तिश्च, वर्तत इति शेषः। तपसा अनशनेन ॥ १७॥१८॥ अभिज्ञानं चिह्नभूतं वाक्यम्, तवान्तिके पूर्व यथा येन प्रकारेण जातं तथा दत्तमित्यर्थः । तदेव दर्शयति
ततः सम्भाषिता देवी सर्वमर्थ चदर्शिता । रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ॥ १६ ॥ नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि ॥ १७॥ एवं मया महाभागा दृष्टा जनकनन्दिनी । उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ॥ १८॥ अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके । चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ॥ १९॥ विज्ञाप्यश्च नरव्याघ्रोरामो वायुसुत त्वया। अखिलेनेह यद् दृष्टमितिमामाह जानकी॥२०॥अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः । ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः॥२१॥ एष चूडामणिः श्रीमान् मया सुपरिरक्षितः। मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ॥ २२॥ त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि । एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ॥ २३॥ एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ । जीवितं धारयिष्यामि मातं दशरथात्मज । ऊर्ध्व मासान्न जीवेयं रक्षसां वशमागता ॥ २४ ॥ इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी । रावणान्तःपुरे रुदा मृगीवोत्फुल्ललोचना ॥२५॥ एतदेव मयाऽऽख्यातं सर्व राघव यद्यथा। सर्वथा सागरजले
सन्तारःप्रविधीयताम् ॥२६॥ चित्रकूट इति, सदम्यवक्तव्यत्वात् सूचनोक्तिः ॥ १९ ॥ अखिलेनेति । रावणागमनादिकमित्यर्थः ॥२०॥ अयं चास्मा इत्यादि । सुग्रीवस्योपशृण्वतः
सुग्रीवे समीपे शृण्वति सति । एवम् एष चूडामणिरित्यारभ्य रक्षसां वशमागतेत्यन्तवक्ष्यमाणप्रकारेण । वचनानि रामं प्रति मयोक्तवचनानि ।ब्रुवता त्वया en२१॥ अयं मणिरित्यर्थः । प्रदातव्यः ॥२२-२४॥ मृगीवोत्फुल्ललोचना, त्रासातिशयादिति भावः॥२५॥ सन्तीर्यतेऽनेनेति सन्तारः सेतुः ॥२६॥
सर्वमथै च दर्शिता ज्ञापिता ॥ १६-२२ ॥ एष इति । निर्यातितः प्रेषितः । वारिसम्भवो मणिः ॥ २३ ॥ एतम् अङ्कलीयकम् ॥ २४-२६ ॥ MI स०-मनःशिलावास्तिलक तास्मरस्वेति चात्रवीत् इति पाटे-स्मरस्व स्मर । ख स्वतन्त्रेति रामसम्बोधन वा ॥ २२ ॥
For Private And Personal

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365