Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 363
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तव शोकेनापि 'नैव दंशान्' इत्यादिमदुक्त्या श्रुतेन । तदा मम पुरस्तादभिपीडिता । अदीनभाषिणा मया । शिवाभिः इष्टाभिः वाग्भिः अभिप्रसादिता अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम् । लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् ॥ २५ ॥ नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् । वानरान् वारणेन्द्राभान क्षिप्रं द्रक्ष्यसि सङ्गतान् ॥ २६ ॥ शैलाम्बुदनिकाशानां लङ्का मलयसानुषु । नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम् ॥ २७ ॥ निवृत्तवनवासं च त्वया सार्धमरिन्दमम् । अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ २८ ॥ ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसा दिता । जगाम शान्ति मम मैथिलात्मजा तवापि शोकेन तदाऽभिपीडिता ॥ २९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकार्यां संहितायां श्रीमत्सुन्दरकाण्डे अष्टषष्टितमः सर्गः ॥ ६८ ॥ सुन्दरकाण्डः समाप्तः ॥ शान्ति दुःखनिवृत्तिं जगाम ॥ २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टषष्टितमः सर्गः ॥ ६८ ॥ इत्थं कौशिकवंशमौक्तिकमणिर्गोविन्दराजाभिधो वात्स्य श्रीशठकोप देशिकपद्वन्द्वैकसेवारतः । पूर्वाचार्यकृता विलोक्य विविधा व्याख्या मुहुर्जानकीकान्तस्याप्रतिमाज्ञयैव तिलकं सौन्दर्यकाण्डे व्यधात् ॥ १ ॥ Acharya Shri Kailashsagarsuri Gyanmandir तत इति । तब शोकेनापि नैव दंशान्' इत्यादिपूर्वमुक्तया मदुक्तया श्रुतेन त्वच्छोकेनापि मम पुनस्तदाऽभिपीडिता । अदीनभाषिणा मया शिवाभि रिष्टाभिः वाग्भिरभिप्रसादिता शान्ति दुःखनिवृत्तिं जगामेति योजना ॥ २९ ॥ इनि श्रीमत्परमहंसपरिव्राजकाचार्य श्रीनारायणतीर्थशिष्य श्री महेश्वरतीर्थ विरचितायां श्रीरामायणन स्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् अष्टषष्टितमः सर्गः ॥ ६८ ॥ महेशतीर्थरचिता रामपादसमर्पिता । व्याख्या सुन्दरकाण्डस्य समाप्ता तत्त्वदीपिका ॥ श्रीमत्सुन्दरकाण्ड पठनश्रवणयोः फलम् । ब्रह्माण्डपुराणे सप्तचत्वारिंशदुत्तरशततमे अभ्या काण्डस्य सुन्दराख्यस्य श्रवणात्पठनादपि मां प्राप्नुयाज्जगद्धेतुं नात्र सन्देह इप्यते ॥ For Private And Personal

Loading...

Page Navigation
1 ... 361 362 363 364 365