Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 362
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir टी.इं.कार स०६८ कार्यनिर्योगे कार्यगतौ । दुरतिक्रमे दुर्निवहे ॥१०-२२॥ तदलमिति । मन्युः दैन्यम् । “ मन्युदैन्ये कतो क्रुधि" इत्यमरः ॥२३-२८॥ तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे । किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ॥१०॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरन यशस्यस्ते बलोदयः॥ ११ ॥ बलैः समौर्यदि मां हत्वा रावणमाहवे । विजयीस्वां पुरी रामो नयेत्तत् स्याद्यशस्करम् ॥१२॥ यथाऽहं तस्य वीरस्य वनादुपधिना हृता। रक्षसा तद्भया देव तथा नाहंति राघवः ॥ १३॥ बलेस्तु सङ्कलां कृत्वा लङ्क परबलादनः । मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ १४॥ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः । भवत्याहवशूरस्य तथा त्वमुपपादय ॥ १५॥ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् । निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् ॥ १६॥ देवि हर्युक्षसैन्याना मीश्वरः प्लवतां वरः। सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः॥ १७॥ तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महा बलाः । मनस्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः ॥८॥ येषां नोपरि नाचस्तान तिर्यक् सजते गतिः। न च कर्मसुसीदन्ति महत्स्वमिततेजसः ॥ १९ ॥ असकृत्तैमहाभागैर्वानरैवलदर्पितः। प्रदक्षिणीकृता भूमिर्वायुमार्गानु सारिभिः॥२०॥ मद्रिशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः। मत्तः प्रत्यारः कश्चित्रास्ति सुप्रीवसन्निधौ ॥२१॥ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः । न हि प्रकृष्टाःप्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥२२॥ तदलं परितापेन देवि मन्युर्व्यपैतु ते । एकोत्पातेन वै लङ्कामेष्यन्ति हरियूथपाः ॥२३॥ मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ। त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ॥ २४ ॥ प्राणानामपि सन्देहः स्यादिनि सम्बन्धः ॥ ५-१०॥ यद्यपि त्वमेव पर्यातः, सकलराक्षसवधपूर्व मन्मोचन इति शेषः । तथापि ईदृशो वलोदयस्तवैव यशस्या यशो' वर्धक: स्यात् ॥ १५ ॥ यदि तु रामो रावणं हत्या मा नयेत तदा तन्नयनं तस्य यशस्करं स्यात् ।। १२-२२ ॥ तदलमिति । मन्युः देन्यम् ।। २२-२८॥ प. ॥१७७॥ For Private And Personal

Loading...

Page Navigation
1 ... 360 361 362 363 364 365