Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsur Gyarmandir
प्रतिसमासितुं प्रतिमुखं स्थातुम् ॥२०-२५॥ त्वच्छोकविमुखः त्वच्छोकेन कार्यान्तरविमुखः ॥ २६-२८॥
सुतः किल सशक्रस्य वायसः पततां वरः । धरान्तरचरः शीघ्र पवनस्य गतौ समः॥१०॥ ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः । वायसे त्वं कृथाःङ्करां मति मतिमतां वर ॥११॥ स दर्भ संस्तराद् गृह्य ब्रह्मास्त्रेण ह्ययोजयः । स दीप्त इव कालाग्निज्वालाभिमुखः खगम् ॥ १२॥ क्षिप्तवांस्त्वं प्रदीप्तं हि दर्भ तं वायसं प्रति । ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह ॥ १३ ॥ स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः। त्रील्लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति ॥१४॥ पुनरेवागतस्तस्त्वत्सकाशमरिन्दम । स तं निपतितं भूमौ शरण्यः शरणागतम् ॥ १५॥ वधार्हमपि काकुत्स्थ कृपया पर्यपालयः॥१६॥ मोघमत्रं न शक्यं तु कर्तुमित्येव राघव । भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ॥१७॥ राम त्वा स नमस्कृत्य राज्ञे दशरथाय च । विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम् ॥ १८॥ एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि । किमर्थमखं रक्षस्सुन योजयति राघवः॥ १९ ॥ न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः । न च सर्वे रणे शका रामं प्रतिसमासितुम् ॥ २०॥ तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः । क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ॥ २१ ॥ भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः। स किमर्थ नरवरोन मां रक्षति राघवः ॥ २२॥ शकौ तौ पुरुषव्याघ्रौ वाय्वनिप्तमतेजमौ। सुराणा मपि दुर्धर्षों किमर्थं मामुपेक्षतः॥ २३ ॥ ममैव दुष्कृतं किंचिन्महदस्ति न संशयः। समर्थों सहितौ यन्मा नावे क्षेते परन्तपौ ॥ २४॥ वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् । पुनरप्यहमार्या तामिदं वचनमब्रुवम् ॥२५॥ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे।रामे दुःखाभिभूतेतु लक्ष्मणः परितप्यते ॥२६॥ न नागा इति । प्रतिसमासितुं प्रतिमुखं स्थानुम् ॥ २०-२५ ॥ त्वच्छोकविमुखः त्वच्छोकेन कार्यान्तरविमुखः ॥ २६ ॥
१७.
For Private And Personal

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365