Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 349
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वैश्वदेवी ममी यो" इतिखः कपिः । राघवं लक्ष्मण स यथैवागतः पूर्व त न मेहमानान् भावः । एवम् अङ्गै संहरित्यत्रापि दृष्टव्यम् । कर्मसिदि बाह्वोरासनां इस्तप्राप्ताम्, । विदित्वा निश्चित्येत्यर्थः। जागतं वैश्वदेवीवृत्तम् । “पञ्चाश्वैश्छिन्ना विश्वदेवी ममी यो" इति लक्षणात् । अस्मिन्सर्गे एकोनत्रिशच्छोकाः ॥२९॥ इति श्रीगो० श्रीरामा० शृङ्गार सुन्दरकाण्ड त्रिषष्टितमः सर्गः॥६३॥ सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः । राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥ १॥ स प्रणम्य च सुग्रीवं राघवौ च महाबलौ। वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह ॥२॥ स यथैवागतः पूर्व तथैव त्वरितं गतः। निपत्य गगनाडूमौ तदनं प्रविवेश ह॥३॥ स प्रविष्टो मधुवनं ददर्श हरियूथपान् । विमदानुत्थितान् सर्वान् मेहमानान् मधूदकम् ॥ ४॥ स तानुपागमदीरो बद्ध्वा करपुटाञ्जलिम् । उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ॥५॥ सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः। अज्ञानादक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः॥६॥ सुग्रीवेणेत्यादि । सहितः स्नेहातिरेकेणान्योन्यं युक्तैः । वानरैः सहितैरिति पाठः ॥ १-३॥ विमदानित्यत्र हेतुमाह-मेहमानानिति । मेहमानान् मेह यतः, मूत्रयत इत्यर्थः । एतेन मूत्रणान्मधूनि जीर्णानीति गम्यते । अत एव विमदत्वम् । मधूनि च उदकानि च मधूदकमिति द्वन्द्वैकवद्भावः। उद कानि चात्र अनुपानत्वेन पीतानि । तदाह बाहट:-"अनुपानं हिमं वारि यवगोधूमयोहितम् । दनि मद्य बिसे क्षोद्रे कोष्णं पिष्टमयेषु च ॥” इति ॥४॥ स तानिति । करपुटाञ्जलिं करतलयोरअलिम्, सम्यक् संयुक्तकरतलाअलिमित्यर्थः ॥५॥ एभिः वानरेः अभिवारितः अभिवारितोऽसीति यत् अत्रार्थे रोषो न कर्तव्यः । भवन्त इति पूजायां बहुवचनम् । न च हनुमदादिकमादाय बहुवचनम्, उत्तरश्लोकेऽपि युवराजस्त्वमित्युक्तेः । अज्ञानात् क्रोधात्, अज्ञानप्रयुक्तकोधादित्यर्थः । अभिवारितमिति पाठे लिङ्गव्यत्यय आर्षः । केचित्तु अज्ञानात् क्रोधाच्च भवन्तः प्रतिषेधिता इत्येतत् परि संहृष्टैः पुलकित: अङ्गेरुपलक्षितः । कर्मसिद्धिं कार्यमिद्धिम् । बाहोरासन्ना हस्तप्राप्ताम् । विदित्वा निश्चित्य ॥ २९ ॥ इति श्रीमहेश्वरतीर्थविरचितायाँ पाश्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याल्यायो विषष्टितमः सर्गः ॥ ६३ ॥॥ १-३ ॥ स प्रविष्ट इनि । विमदत्वे हेतुमाह मेहमानान्मधूदकमिति । मेह मानान मूत्रयतः । एतेन मूत्रणान्मधूना जीर्णता विज्ञेया, अतो विमदान । मधूनि च उदकानि च मधूदकमिति द्वन्द्वैकवद्भावः । उदकानि चानुपानत्वेन पीतानीति | द्रष्टव्यम् ॥ ४॥५॥हे सौम्य! एभिरज्ञानात्क्रोधाच भवन्तः प्रतिषेधिता इति यत् एतत्परिवारितं परितो वारणं प्रति रोषो न कर्तव्य इति योजना ॥६॥ For Private And Personal

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365