Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 347
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsun Gyarmandie अवशिष्टं मधुपटलम् । अत्र मधुवने । अपविध्यन्ति ध्वंसयन्ति । भक्षयन्ति मधुपटलमित्यर्थः ॥६॥ हिशब्दः पादपूरणे । सम्प्रर्पणचिह्नस्य दृश्य मानत्वाभिप्रायेण प्रसिद्धिपरो वा ॥ ७-१३॥ आर्येत्यादि । अङ्गदप्रमुखैरिति अब विशिष्यानुवादाद्दपिमुखवाक्ये वानरपुङ्गवेरित्यत्रापि विशेषपरत्वं| इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः । वारयन्तो वनातस्मात् क्रु द्वैर्वानरपुङ्गवः ॥ ७॥ ततस्तैर्बहुभिर्वीरैर्वानरै निरर्षभ । संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः ॥८॥ पाणिभिनिहताः केचित् केचिज्जानुभिराहताः। प्रकृष्टाश्च यथाकामं देवमार्ग च दर्शिताः ॥९॥ एवमेते हताः शरास्त्वयि तिष्ठति भर्तरि । कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ॥ १० ॥ एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् । अतृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ॥ ११॥ किमयं वानरो राजन् वनपः प्रत्युपस्थितः। के चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ॥ १२ ॥ एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना । लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ १३ ॥ आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः । अङ्गदप्रमुखैरिभक्षितं मधु वानरैः ॥१४॥ विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः ॥ १५॥ नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः। आगतैश्च प्रमथितं यथा मधुवनं हि तैः॥ १६॥ धर्षितं च वनं कृत्स्न मुपयुक्तं च वानरैः ॥ १७॥ वनं यदाभिपन्नास्ते साधितं कर्म वानरैः। दृष्टा देवी न सन्देहो न चान्येन हनूमता । न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः॥ १८॥ कार्यसिद्धिर्मतिश्चैव तस्मिन् वानरपुङ्गवे । व्यवसायश्च वीर्य च श्रुतं चापि प्रतिष्ठितम् ॥ १९ ॥ बोध्यम् ॥ १४ ॥ १५ ॥ वनं प्रमथितं भग्नम् । धर्षितम् आक्रान्तम् । मधु च भक्षितम् । यथा येन कारणेन । एपामकृतकृत्यानामीदृश उपक्रमो न । स्यादिति मन्य इति योजना ॥१६॥ १७॥ कृतकृत्यत्वं विशेषयति-वनमित्यादिना ॥ १८-२३ ॥ इमे मद्धृत्याः ॥ ७-१०॥ अपृच्छदिति । सहैव वसतो लक्ष्मणस्य " कश्चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत्" इति प्रश्नकरणात दधिमुखेन वनभङ्गादिकं स्वजात्युचितभाषयोक्तमित्यवगन्तव्यम् । उपांशूक्तमिति वा द्रष्टव्यम् ॥११-१६ ।। उपयुक्तं भुक्तम् ॥ १७ ॥ वनमिति । अभिपन्नाः प्राप्ताः ॥ १८-२५॥ For Private And Personal

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365