Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.bath.org
Acharya Sher Kalashsagarsu Gyarmandie
वा.रा.भू. वारितं परिवारणं प्रति रोषो न कर्तव्य इति योजयन्ति ॥६॥क्रोधाद्वारणे कृते कुतो रोषो न कर्तव्यस्स्यादित्याशङ्कय क्रोधस्याज्ञानकुतत्वादित्याह॥१७॥ युवराज इति । दोषः निवारणरूपापराधः॥७॥ आख्यातं हीति । उपयातम् आगमनम् ॥८-११॥ शङ्क इति । अयं वृत्तान्तः अस्मदागमनवृत्तान्तः
| स०६४ युवराजस्त्वमीशश्च वनस्यास्य महाबल । मौात् पूर्व कृतो दोषस्तं भवान् क्षन्तुमर्हति ॥७॥आख्यातं हि मया गत्वा पितृव्यस्य तवानघ । इहोपयातं सर्वेषामेतेषां वनचारिणाम् ॥ ८॥ स त्वदागमनं श्रुत्वा सहैभिहरियूथपः। प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् ॥ ९॥ प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः । शीघ्रं प्रेषय सर्वा स्तानिति होवाच पार्थिवः॥ १०॥ श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्णमङ्गदः। अब्रवीत्तान हरि श्रेष्ठो वाक्यं वाक्य विशारदः॥११॥शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः । तत्क्षम नेह नः स्थातुं कृते कार्ये परन्तपाः॥१२॥ पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः। किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ॥ १३॥ सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः। तथाऽस्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ॥ १४ ॥ नाज्ञापयितुमीशोऽहं युव
राजोऽस्मि यद्यपि । अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ॥ १५॥ H॥१२॥ किं शेषं न किंचिदपि शिष्टमित्यर्थः । किन्तु मे गुरुः सुग्रीवो यत्र वर्तते तत्र गमनमेव शेषमित्यर्थः । किंशेपं गमनं तच्च सुग्रीवो यत्र मे गुरुः इति ।
पाठे-अस्माकं गमनं किंशेष किंचिच्छेषम् । तच्च गमनशेषं च सुत्रीवो यत्र तत्र गमनमिति संबन्धः ॥१३॥विनयपूर्वकं सर्वसंमेलनं समर्थयते-सर्व इति । तथास्मि कर्ता आह्वानं करिष्यामीत्यर्थः । कर्तव्ये कार्ये । भवद्भिः अहं परवान्, भवद्भिर्यथा नियुक्तं तथा करिष्यामि । गन्तव्यमित्युक्ते गमिष्यामः स्थातव्यमित्युक्ते स्थास्यामः इत्यर्थः ॥ १४॥ युवराजत्वात् भवानेव कर्तव्याकर्तव्यनियन्तेत्यत आह-नाज्ञापयितुमिति। ईशः स्वतन्त्रः । कृतकर्माणः । दोषः कृतः, मदीयैरिति शेषः ॥ ७-११ ॥ शके, दधिमुखस्य परावृत्त्यागमनात् ॥ १२ ॥ किं शेषम न किमपि शिष्टमित्यर्थः । गमनम्, कर्तव्यमिति शेषः ॥ १३ ॥ १४ ॥ नाज्ञापयितुमिति । अयुक्तमित्येतदव्ययम् । अयुक्ताः अनर्हा इत्यर्थः । धर्षयितुं नियन्तुम् ॥ १५-१७ ॥
॥१७॥
For Private And Personal

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365