Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
हार्यम् ॥२३-२५॥ विनिपातिते विनिते ॥२६॥ अकृतकृत्यानाम् अकृतकार्याणाम् । ईदृशःमधुवनभङ्गरूपः। उपक्रमः उद्योगः । यदि स्यात्तदाऽङ्गदोटी .तु.का. लादीनवदनत्वादिविशिष्टो भवेत् ॥ २७॥ पितृपैतामहमिति । पिता चासो पितामहश्च । पित्रा ब्रह्मणा ऋक्षरजसे दत्तं पितृपैतामहम् । पूवगेश्वरः अङ्गदः .. KAM॥२८॥ कौसल्येति । हे राम! कौसल्या सुप्रजाः सुप्रजावती । “नित्यमसिच् प्रजामेधयोः" इत्यसिच्प्रत्ययः । एवं देव्यवस्थानज्ञानेन भवतस्सत्तार
न मत्सकाशमागच्छेत्. कृत्ये हि विनिपातिते। युवराजो महाबाहुः प्लवता प्रवरोऽङ्गदः ॥ २६ ॥ यद्यप्यकृत कृत्यानामीदृशः स्यादुपक्रमः । भवेत् स दीनवदनो भ्रान्तविप्लुतमानसः॥ २७॥ पितृपैतामहं चैतत् पूर्वकैरभि रक्षितम् । न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः॥ २८ ॥ कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत । दृष्टा देवी न सन्देहो न चान्येन हनूमता ॥ २९॥ न ह्यन्यः कर्मणो हेतुः साधनेऽस्य हनूमतः । हनूमति हि सिद्धिश्च मतिश्च । मतिसत्तम । व्यवसायश्च वीर्यं च सूय तज इव ध्रुवम् ॥३०॥ जाम्बवान् यत्र नेता स्यादङ्गदश्च बलेश्वरः। हनुमा श्चाप्यधिष्ठाता न तस्य गतिरन्यथा॥३१॥ मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम ॥३२॥ ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे। हनुमत्कर्मदृप्तानां नर्दतां काननौकसाम् । किष्किन्धामुपयातानां सिद्धिं कथयतामिव ॥ ३३ ॥ लाभादिदानी कौसल्या सुप्रजावती, अभूदिति शेषः ॥ २९ ॥३०॥ यत्र कार्ये । नेता मन्त्री । बलेश्वरः सेनापतिः । अधिष्ठाता संरक्षक इत्यर्थः ।। तस्य कार्यस्य । गतिः सिद्धिः । अन्यथा विपरीता न भवेत् । संप्रति चिन्तासंयुक्तो मा भूः ॥३१॥३२॥ सिद्धिं कथयतामिव । उत्साहेनेति शेषः॥३३॥ द्रष्टव्यम् । आगमनस्य वक्ष्यमाणत्वादिति भावः ॥ २४-२६ ॥ ननु मधुवनधर्षणमात्रेण कथं कार्यसिद्धिः ? कापेयादिनापि सम्भवादित्याशय, सत्यम् अन्येषां ताहशत्वेपि अङ्गदस्तु नैतादृश इत्याशयेनाह-यद्यपीत्यादिश्लोकद्वयेन । अकृतकृत्यानामन्येषां वानराणाम् । ईदृश उपक्रमः मधुवनभङ्गहर्षव्यापारो यद्यपि ॥१७२।। स्यात् तथापि तत्र अङ्गदस्तु दीनवदनो भ्रान्तविप्लुतमानसश्च भवेत् । कुतः पितृपैतामहं पितृपितामहपरम्परागतं मे मधुवनं जनकात्मजामदृष्ट्वा न हन्यात् । ॥ २७ ॥ २८ ॥ हे राम ! कौसल्या सुप्रजाः सीतायाः स्थितिपरिज्ञानेन भवतः सत्तालाभात् इदानी कौसल्या सुपुत्रवत्यभूदिति भावः ॥ २९ ॥ ३०॥ अधिष्ठाता
For Private And Personal

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365