Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 345
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गतायुष इत्यधिक्षेपवचनम् ॥ ३४ ॥ वया ह्येत इति । अमर्षप्रभवः असमाजन्यः । रोषस्य तज्जन्यत्वं च यो यस्मै न सहते तस्मै कुद्धयतीति प्रसिद्धम् अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः । अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा ॥ २५ ॥ तं वृक्षं महाबाहुमापतन्तं महाबलम् । आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः ॥ २६ ॥ मदान्धश्च न वेदैनमार्यकोऽयं ममेति सः । अथैनं निष्पिषाशु वेगवद्वसुधातले ॥ २७ ॥ स भग्रबाहूरुभुजो विह्वलः शोणितोक्षितः । मुमोह सहसा वीरो मुहूर्त कपिकुञ्जरः ॥ २८ ॥ स समाश्वस्य सहसा संक्रुद्धो राजमातुलः । वानरान् वारयामास दण्डेन मधुमोहितान् ॥ २९ ॥ स कथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभः । उवाचैकान्तमाश्रित्य भृत्यान् स्वान समुपागतान् ॥ ३० ॥ तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः । सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ॥ ३१ ॥ सर्वे चैवाङ्गदे दोषं श्राव यिष्यामि पार्थिवे । अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ॥ ३२ ॥ इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः । पितृपैतामहं दिव्यं देवैरपि दुरासदम् ॥ ३३ ॥ स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः । घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ॥ ३४ ॥ वध्या ह्येते दुरात्मानो नृपाज्ञापरिभाविनः । अमर्षप्रभवो रोषः सफलो नो भविष्यति ॥ ३५ ॥ एवमुक्त्वा दधिमुखो वनपालान् महाबलः । जगाम सहसोत्पत्य वनपालैः समन्वितः ॥ ३६ ॥ निमेषान्तरमात्रेण स हि प्राप्तो वनालयः । सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः ॥ ३७ ॥ रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च । समप्रतिष्ठां जगतीमाकाशान्निपपात ह ॥ ३८ ॥ ॥ ३५ ॥ ३६ ॥ निमेषान्तरेति । निमेषान्तरमात्रेण निमेषावकाशमात्रेण । वनालयः वानरः ॥ ३७ ॥ रामं चेति । समप्रतिष्ठां समतलाम् । जगतीं आर्यकः सुग्रीवमातुलत्वात्पूज्यः ॥ २७-३० ॥ भर्ता राजा ॥ ३१-३४ ॥ अमर्षप्रभवः अक्षमाजन्यः ॥ ३५-३७ ॥ समप्रतिष्ठां समास्पदां समतलाम् । जगतीं For Private And Personal

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365