Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 343
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ज्ञापनेन पुनर्जग्मुरित्यर्थः ॥ ५ ॥ वीर्यतः बलात् । अतिसर्गादङ्गदाभ्यनुज्ञानात् । दृड्दा श्रुत्वा च मैथिलीं दर्शनश्रवणाभ्यां च हेतुना । वनपालानाकम्य आक्षिप्य || ६ || ७ || सक्तान् वनपालने रतान् ||८|| मधूनि मधुपटलानि । द्रोणमात्राणि द्रोणप्रमाणानि आढक प्रमाणानि । निघ्नन्ति स्म पीतावशिष्टानि मधु ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः ॥ ६ ॥ अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् । पपुः सर्वे मधु तदा रसवत् फलमाददुः ॥ ७ ॥ उत्पत्य च ततः सर्वे वनपालान् समागतान् । ताडयन्ति स्म शतशः सक्तान मधुवने तदा ॥ ८ ॥ मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते। पिबन्ति सहिताः सर्वे निघ्नन्ति स्म तथाऽपरे ॥ ९ ॥ केचित्पीत्वाऽपविध्यन्ति मधूनि मधुपिङ्गलाः । मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः ॥ १० ॥ अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः । अत्यर्थे च मदग्लानाः पर्णान्यास्तीर्य शेरते ॥ ११ ॥ उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् । क्षिपन्ति च तदाऽन्योन्यं स्खलन्ति च तथाऽपरे ॥ १२ ॥ केचित् क्ष्वेलां प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत् | हरयो मधुना मत्ताः केचित् सुप्ता महीतले ॥ १३ ॥ कृत्वा केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत् । कृत्वा केचिद्वदन्त्यन्ये केचिदबुद्धयन्ति चेतरत् ॥ १४ ॥ पटलानि भिन्दन्ति स्म ॥९॥ अपविध्यन्ति अवक्षिपन्ति । मधूच्छिष्टेन सिक्थकेन । "मधूच्छिष्टं तु सिक्थकम्" इत्यमरः । उत्कटाः मत्ताः ॥१०॥११॥ हृष्टवत् हर्षयुक्तमिति क्रियाविशेषणम् । हृष्टाईमिति वार्थः । क्षिपन्ति उत्क्षिप्य पातयन्ति । स्खलन्ति पादेन नुदन्तीत्यर्थः ॥ १२ ॥ वेलां सिंहनादम् । "वेला तु सिंहनादः स्यात् " इत्यमरः । कूजन्ति पक्षिवच्छन्दायन्ते ॥ १३ ॥ अन्ये अवाच्यं किंचिदग्राम्यं कर्म कृत्वा हसन्ति । इतरत् ते प्रविष्टाः पटवः समर्थः हरयः मैथिलीं दृष्ट्वा स्ववर्गस्थहनुमद्दर्शनेन सर्वे हृष्टवन्तः श्रुत्वा हनुमन्मुखेन अतिसर्गादङ्गदाभ्यनुज्ञानात् मधुवनं प्रविष्टाः वीर्यतः बलात्पालानाक्रम्य मधु पपुः रसवत्फलमाददुरिति योजना ॥ ६ ॥ ७ ॥ मधुवने सक्तान् मधुरक्षणार्थं लग्नान् ॥ ८॥ मधूनि मधुपटलानि । निघ्नन्ति छिन्दन्ति ॥ ९ ॥ अपविध्यन्ति क्षिपन्ति ॥ १०॥ मधुमत्ताः अत एव उन्मत्तभूताः उन्मत्तसदृशा इत्यर्थः । हृष्टवत् हृष्टाः ||१२|| १३|| अद्य किञ्चिदवाच्यं कर्म कृत्वा इसन्ति । केचिद For Private And Personal

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365