Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 323
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir मयि वृद्धे साप्यवर्षिष्टेत्यर्थः॥ ४० ॥ अयं कामरूपीति माम्, साधु सम्यक्, न बुबुधे न ज्ञातवती । मम कृतं निकृतं मया कृतां निकृति वा न बुबुधे ॥४१॥ निकृतिमेव दर्शयति-ततोऽहमिति ॥४२॥ विसृष्टभुजा विसृष्टसन्धिकभुजा ॥४३॥ शृणोमीति । हतेत्यनन्तरमितिकरणं बोध्यम् ॥४४॥ कृत्य न च मां साधु बुबुधे मम वा निकृतं हाम् ॥४१॥ ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् । तस्या हृदय मादाय प्रपतामि नभःस्थलम् ॥ ४२ ॥ सा विसृष्टभुजा भीमा पपात लवणाम्भसि । मया पर्वतसङ्काशा निकृत्त हृदया सती ॥ ४३ ॥ शृणोमि खगतानां च सिद्धानां चारणैः सह । राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ॥४४॥ तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् । गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम् ॥४५॥ दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी। अस्तं दिनकरे याते रक्षसां निलयं पुरम् । प्रविष्टोऽहमविज्ञातो रक्षोभि भीमविक्रमैः ॥ ४६ ॥ तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा। अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ॥४७॥ जिघांसन्ती ततस्तां तु ज्वलदनिशिरोरुहाम् । सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ॥४८॥ प्रदोष काले प्रविशं भीतयाऽहं तयोदितः । अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ॥४९॥ यस्मात्तस्मादिजेतासि सर्व रक्षांस्यशेषतः॥५०॥ तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् । रावणान्तःपुरगतो न चापश्यं सुमध्यमाम्॥५१॥ मात्ययिकं स्मरन् प्राणान्तिकं तत्कर्म विचिन्तयन्नित्यर्थः॥४५-४८॥ रामानु-जिघांसन्तीमित्यादि । प्रविशं प्राविशम् ।। ४८ ॥४९॥ भीतयेत्यादि । भीतया तया नार्या । अशेषत इत्यनन्तरमितिकरणं द्रष्टव्यम् ॥ १९ ॥५०॥ सर्वरात्रं सर्वा रात्रिम् । “ अह-सर्व-" इत्यादिना समासान्तोऽच । अत्यन्त प्रवर्द्धते अवर्द्धत ॥४०॥ सा मा न बुबुधे अयं कामरूपीति मा न ज्ञातवतीत्यर्थः। मम कृतं विकृतं सा मया कृतं विकारस्वरूपं वा न बुबुधे ॥४१॥ तद्विकृतं किमित्यत आह-ततोऽहमिति । हृदयमादाय हृदयं निकृत्य । प्रपतामि प्रापतम् ॥४२॥ विमृष्टभुजा विनंसितभुजा ।। ४३ ॥ शृणोमीति । सिंहिका हनुमता पाहतेति शुगतानो देवानां वाचः शृणोमीति सम्बन्धः॥४४॥ कृत्यम् आत्ययिकं प्राणान्तिकं कर्म चिन्तयन्नित्यर्थः ॥ ४५-४७ ॥ मा जिघासन्ती ज्वलदग्नितुल्य केशपाशाम् ॥ ४८ ॥ प्रविशं प्राविशम् ॥४९॥५०॥ सर्वरात्रं सर्वा रात्रिम् । तत्राहं मध्यरात्रे तु इति पाठः साधुः ॥५१॥ १४ For Private And Personal

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365