Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 339
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अस्मिन् सर्गे सार्द्धषट्त्रिंशच्छ्लोकाः ॥ ३६ ॥ इति श्रीगोविन्द० श्रीरामा० शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥ ५९ ॥ तस्येत्यादि ॥ १ ॥ अयुक्तं त्विति । वानरा इति सम्बोधनम् ॥२-६॥ अथ जाम्बवानङ्गदवाक्यं बहुमन्यमानस्सुहृद्भावेन प्रतिषेधति न तावदिति । तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ॥ १॥ अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः । समीपं गन्तुमस्माभी राघवस्य महात्मनः ॥२॥ दृष्टा देवी न चानीता इति तत्र निवेदनम् । अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ॥ ३ ॥ न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे । तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ॥ ४ ॥ तेष्वेवं हतवीरेषु राक्षसेषु हनूमता । किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ॥ ५ ॥ तमेवं कृतसङ्कलं जाम्बवान् हरिसत्तमः । उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ॥ ६ ॥ न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र । यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धिम् ॥ ७॥ इत्यार्षे श्रीमत्सुन्दरकाण्डे षष्टितमः सर्गः ॥ ६० ॥ अक्षमा अयुक्ता न किन्तु युक्तैवेत्यर्थः । यद्यपि सम्ययुक्तं समर्थैश्वापि रामाज्ञानुसारेण कर्तव्यम् न स्वातन्त्र्येणेत्यर्थः । अस्मिन् सर्गे सार्घषट् श्लोकाः ॥ ७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षष्टितमः सर्गः ॥ ६० ॥ भावादिति भावः । देव्या तस्य वधाकरणे हेतुमाह निमित्तमात्रमिति । तुशब्दोऽवधारणे, निमित्तमात्रं सीतेति भावः । तस्य वधे राम एव भविष्यति ॥ ३४- ३६॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्ड व्याख्यायाम् एकोनषष्टितमः सर्गः ॥ ५९ ॥ १ ॥ २ ॥ दृष्टा देवी न चानीतेति | भवद्भिर्निवेदितुं न युक्तमिव पश्यामीति सम्बन्धः ॥ ३ ॥ ४ ॥ तेष्विति । हनुमता तेषु राक्षसेषु हतशेषेषु सत्सु । अत्र राक्षसेषु अन्पद किं कर्तव्यम् ? न किमपि | किन्तु जानकीं गृहीत्वा यामेति सम्बन्धः ॥ ५ ॥ ६ ॥ जाम्बवानङ्गदस्य मतं बहुमान्य सुहद्भावेन निवर्तयति न तावदिति । हे राजपुत्र ! यथा भवान् पश्यति एषा मतिः नः अस्माकम् अक्षमा न अयुक्ता न किन्तु युक्तैव तथापि यथा रामस्य मतिर्निविष्टा अवस्थिता तथा भवान् कार्यसिद्धिं पश्यत्विति सम्बन्धः ॥७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां षष्टितमः सर्गः ॥ ६० ॥ For Private And Personal

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365