Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
तेषामिति शेषः॥१४-२१॥ मयैवेति । दग्धत्वेप्यङ्गारावस्था भवति साऽपि नास्तीत्याह-भस्मीकृतेति ॥ २२॥ नामविश्रावणमेवाह-जयतीति ।
पनसस्योरुवेगेन नीलस्य च महात्मनः । मन्दरोऽप्यवशीर्येत किं पुनयुधि राक्षसाः॥ १५॥ सदेवासुरयक्षेषु गन्धर्वोरंगपक्षिषु । मैन्दस्य प्रतियोद्धारं शंसत द्रिविदस्य वा ॥ १६॥ अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ । एतयोः प्रतियोद्धारं न पश्यामिरणाजिरे ॥ १७॥ पितामहवरोत्सेकात् परमं दर्पमास्थितौ। अमृतप्राशिनावेतौ सर्ववानरसत्तमौ ॥ १८॥ अश्विनोर्माननार्थ हि सर्वलोकपितामहः । सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा ॥ १९॥ वरोत्सेकेन मुक्तौ च प्रमथ्य महतीं चमूम् । सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ॥२०॥ एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् । लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः॥२१॥ मयैव निहता लङ्का दग्धा भस्मीकृता पुनः । राजमार्गेषु सर्वत्र नाम विश्रावितं मया ॥२२॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः॥२३॥ अहं कोसलराजस्य दासः पवनसम्भवः। हनुमानिति सर्वत्र नाम विश्रावितं मया ॥ २४॥ अशोकवनिकामध्ये रावणस्य दुरात्मनः। अधस्ताच्छिशुपावृक्षे साध्वी करुणमास्थिता ॥ २५॥ राक्षसीभिः परिवृता शोकसन्तापकर्शिता । मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा । अचिन्तयन्ती वैदेही रावणं बलदपितम् ॥ २६ ॥ पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ॥२७॥ जयति सर्वोत्कर्षेण वर्तते । तदुक्तं हरिणा-"जयिर्जयाभिभवयोराद्यर्थेऽसावकर्मकः । उत्कर्षप्राप्तिराद्यार्थों द्वितीयेऽथै सकर्मकः॥” इति ॥ २३ ॥२४॥ अथ सीतादुर्दशाविमर्शेऽपि सम्प्रत्यसौ समानेतव्येत्याशयेन तदशां दर्शयति-अशोकेत्यादिना ॥ २५ ॥ २६ ॥ पतिव्रता चेत्यादि । कामयेति । नाम विश्रावितम्, सुग्रीवादोरीति शेषः ॥ २२ ॥ तदेवाह-जयतीति ॥ २३ ॥ २४ ॥ सीतादुर्दशाविमर्शेऽपि संप्रति सा समानेतव्येत्याशयेन तद्दशा वर्ण
यति-अशोकवनिकेत्यादि ॥ २५ ॥ अचिन्तयन्ती अगणयन्ती ॥ २६ ॥ अवष्टब्धा निरुद्धा ॥ २७॥
पवार
For Private And Personal

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365