SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir तेषामिति शेषः॥१४-२१॥ मयैवेति । दग्धत्वेप्यङ्गारावस्था भवति साऽपि नास्तीत्याह-भस्मीकृतेति ॥ २२॥ नामविश्रावणमेवाह-जयतीति । पनसस्योरुवेगेन नीलस्य च महात्मनः । मन्दरोऽप्यवशीर्येत किं पुनयुधि राक्षसाः॥ १५॥ सदेवासुरयक्षेषु गन्धर्वोरंगपक्षिषु । मैन्दस्य प्रतियोद्धारं शंसत द्रिविदस्य वा ॥ १६॥ अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ । एतयोः प्रतियोद्धारं न पश्यामिरणाजिरे ॥ १७॥ पितामहवरोत्सेकात् परमं दर्पमास्थितौ। अमृतप्राशिनावेतौ सर्ववानरसत्तमौ ॥ १८॥ अश्विनोर्माननार्थ हि सर्वलोकपितामहः । सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा ॥ १९॥ वरोत्सेकेन मुक्तौ च प्रमथ्य महतीं चमूम् । सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ॥२०॥ एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् । लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः॥२१॥ मयैव निहता लङ्का दग्धा भस्मीकृता पुनः । राजमार्गेषु सर्वत्र नाम विश्रावितं मया ॥२२॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः॥२३॥ अहं कोसलराजस्य दासः पवनसम्भवः। हनुमानिति सर्वत्र नाम विश्रावितं मया ॥ २४॥ अशोकवनिकामध्ये रावणस्य दुरात्मनः। अधस्ताच्छिशुपावृक्षे साध्वी करुणमास्थिता ॥ २५॥ राक्षसीभिः परिवृता शोकसन्तापकर्शिता । मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा । अचिन्तयन्ती वैदेही रावणं बलदपितम् ॥ २६ ॥ पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ॥२७॥ जयति सर्वोत्कर्षेण वर्तते । तदुक्तं हरिणा-"जयिर्जयाभिभवयोराद्यर्थेऽसावकर्मकः । उत्कर्षप्राप्तिराद्यार्थों द्वितीयेऽथै सकर्मकः॥” इति ॥ २३ ॥२४॥ अथ सीतादुर्दशाविमर्शेऽपि सम्प्रत्यसौ समानेतव्येत्याशयेन तदशां दर्शयति-अशोकेत्यादिना ॥ २५ ॥ २६ ॥ पतिव्रता चेत्यादि । कामयेति । नाम विश्रावितम्, सुग्रीवादोरीति शेषः ॥ २२ ॥ तदेवाह-जयतीति ॥ २३ ॥ २४ ॥ सीतादुर्दशाविमर्शेऽपि संप्रति सा समानेतव्येत्याशयेन तद्दशा वर्ण यति-अशोकवनिकेत्यादि ॥ २५ ॥ अचिन्तयन्ती अगणयन्ती ॥ २६ ॥ अवष्टब्धा निरुद्धा ॥ २७॥ पवार For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy