________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyarmandir
बा-रा.भू.
१६॥
टी.सु.का.
एवं स्थिते युष्मद्नुमत्या भृत्यविजयोऽपि स्वामिन एवेति कृता सीतारामपदावलम्बादहमेव रावणं निर्जित्य सीतापुरस्कारेणैव राबघौ द्रक्ष्या मीत्याह-जाम्बवदिति ॥५॥६॥न चाशक्तिशङ्का कार्यति बहुधा प्रपञ्चयवाह-अहमित्यादिना ॥७-९॥ ब्राह्ममित्यादि । अभ्यनुज्ञातः अभ्यनु ।
जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् । अस्मिन्नेवंगते कार्ये भवतां च निवेदिते ॥५॥ न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ॥६॥ अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम् । तां लङ्का तरसा हन्तुं रावणं च महाबलम् ॥ ७ ॥ किं पुनः सहितो वीरैर्वलवद्भिः कृतात्मभिः । कृतास्त्रैः प्लवगैः शरैर्भवद्भिर्विजयैषिभिः ॥८॥ अहं तु रावणं युद्ध ससैन्यं सपुरस्सरम् । सहपुत्रं वधिष्यामि सहोदरयुतं युधि॥ ९॥ब्राह्ममैन्द्रंचरौद्रं च वायव्यं वारुणं तथा। यदि शक्रजितोऽस्राणि दुर्निरीक्षाणि संयुगे॥१०॥ तान्यहं विधमिष्यामि निहनिष्यामि राक्षसान् । भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् ॥ ११॥ मयाऽतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा । देवानपि रणे हन्यात् किं पुनस्तानिशाचरान् ॥ १२॥ सागरोऽप्यतियाटेलां मन्दरः प्रचलेदपि । न जाम्बवन्तं समरे कम्पयेदार
वाहिनी ॥ १३॥ सर्वराक्षससङ्घाना राक्षसा ये च पूर्वकाः। अलमेको विनाशाय वीरो वालिसुतः कपिः॥ १४ ॥ ज्ञानात् । पञ्चम्यास्ततिः । मे विक्रमः तं रावणम् रुणद्धि हन्तीत्यर्थः ॥ १०-१२ ॥ अतियात् आर्ष ह्रस्वत्वम् ॥ १३॥ सर्वेति । पूर्वकाः। रामस्य ' इत्युक्तमिति भावः ॥४॥ भृत्यजयोऽपि स्वामिन एवेति कृत्वा सीतापातिव्रत्यमहिना रावणं वयमेव जित्वा देन्या सह राघवौ द्रक्ष्याम इत्याहजाम्बवत्प्रमुखानिति । अस्मिन् कायें एवंगते भवता निवेदिते सति जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य वेटेह्या सह तो पार्थिवात्मजो द्रष्टुं न्याय्यं स्मेति सम्बन्धः । जाम्बवदादयो यद्यनुजानीयुः तदा राक्षसान हत्वा देव्या सहेव रामसमीपं गमिष्याम इति भावः॥५॥६॥न चाशक्तिशङ्का कार्येत्याह-अहमेकोऽपीत्यादि ॥७॥ कृताः देवांशत्वादखप्रयोगसमर्थैः॥ ८-१०॥ अभ्यनुज्ञातः अभ्यनुज्ञानादित्यर्थः । मे विक्रमः तम् इन्द्रजितं रुणद्धि वारयति, आक्रमतीत्यर्थः । भवतामनुज्ञया । इन्द्रजितमपि वधियामीति भावः ॥११॥ १२॥ इदानीं सर्वेऽपि भवन्तस्तद्धे समर्था इत्याह-सागरोऽपीति ॥१३॥ येच पूर्वकाः, तेषामपीति शेषः ॥१४-२१॥
॥१६॥
For Private And Personal