Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 321
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उद्यतम् उद्युक्तम् ||१८|| अनुज्ञातः, अस्मीति शेषः । वपुष्मता पुष्कलवपुषा । मानुषेण शरीरेणान्तर्हितः । शैलेन तु शरीरेण महोदधौ सागरोपरि, स्थित इति शेषः । 'सवै दत्तवरः शैलो बभूवावस्थितस्तथा' इति प्रथमसग केः । प्रतिप्रयाणे च- 'पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान्' इत्युक्तम् । एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः । कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ॥ १८ ॥ तेन चाहमनुज्ञातो मैनाकेन महात्मना । स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता । शरीरेण महाशैलः शैलेन च महोदधौ ॥ १९ ॥ उत्तमं जवमास्थाय शेषं पन्थानमास्थितः । ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ॥ २० ॥ ततः पश्याम्यहं देवीं सुरसां नागमातरम् । समुद्रमध्ये सा देवी वचनं मामभाषत ॥ २१ ॥ मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम । अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ॥ २२ ॥ एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः । विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ॥ २३ ॥ रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् । लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ॥ २४ ॥ तस्य सीता हृता भार्या रावणेन दुरात्मना । तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥ २५ ॥ कर्तुमर्हसि रामस्य साहाय्यं विषये सती। अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥ २६ ॥ आग मिष्यामि ते वक्रं सत्यं प्रतिशृणोमि ते ॥ २७ ॥ एवमुक्ता मया सा तु सुरसा कामरूपिणी । अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ॥ २८ ॥ एवमुक्तः सुरसया दशयोजनमायतः । ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु । मत्प्रमाणानुरूपं च व्यादितं तु मुखं तया ॥ २९ ॥ 'हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि 'इति रामेण चोक्तम् ॥। १९-२५ ॥ कर्तुमिति । विषये सती स्वराज्ये वसन्ती ॥ २६-२८ ॥ एवमुक्त इति । तत उद्यतम् अग्रे चलितम् ॥ १८ ॥ वपुष्मता पौष्कल्यवता । मानुषेण शरीरेणान्तर्हितः । शैलेन शिलारूपेण शरीरेग तु महोदव सागरोपरि, स्थित इति शेषः ॥ १९-२१ ॥ ममेति । प्रदिष्टः दत्तः । विहितः लब्धः ॥ २२-२५ ॥ विषये सती विषयवासिनी ॥ २६ ॥ २७ ॥ नातिवर्तेत नातिकपेत। मां प्राप्तो मदादारता प्राप्तो न गच्छेदित्यर्थः ॥ २८ ॥ ततोऽर्द्धगुणविस्तारः ततो दशयोजनादर्धस्य पचयोजनस्य गुण आवृत्तिः तद्विस्तारो दश योजनविस्तारः । प्रथमसर्गे दशयोजन For Private And Personal

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365