________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उद्यतम् उद्युक्तम् ||१८|| अनुज्ञातः, अस्मीति शेषः । वपुष्मता पुष्कलवपुषा । मानुषेण शरीरेणान्तर्हितः । शैलेन तु शरीरेण महोदधौ सागरोपरि, स्थित इति शेषः । 'सवै दत्तवरः शैलो बभूवावस्थितस्तथा' इति प्रथमसग केः । प्रतिप्रयाणे च- 'पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान्' इत्युक्तम् । एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः । कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ॥ १८ ॥ तेन चाहमनुज्ञातो मैनाकेन महात्मना । स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता । शरीरेण महाशैलः शैलेन च महोदधौ ॥ १९ ॥ उत्तमं जवमास्थाय शेषं पन्थानमास्थितः । ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ॥ २० ॥ ततः पश्याम्यहं देवीं सुरसां नागमातरम् । समुद्रमध्ये सा देवी वचनं मामभाषत ॥ २१ ॥ मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम । अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ॥ २२ ॥ एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः । विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ॥ २३ ॥ रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् । लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ॥ २४ ॥ तस्य सीता हृता भार्या रावणेन दुरात्मना । तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥ २५ ॥ कर्तुमर्हसि रामस्य साहाय्यं विषये सती। अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥ २६ ॥ आग मिष्यामि ते वक्रं सत्यं प्रतिशृणोमि ते ॥ २७ ॥ एवमुक्ता मया सा तु सुरसा कामरूपिणी । अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ॥ २८ ॥ एवमुक्तः सुरसया दशयोजनमायतः । ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु । मत्प्रमाणानुरूपं च व्यादितं तु मुखं तया ॥ २९ ॥
'हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि 'इति रामेण चोक्तम् ॥। १९-२५ ॥ कर्तुमिति । विषये सती स्वराज्ये वसन्ती ॥ २६-२८ ॥ एवमुक्त इति । तत उद्यतम् अग्रे चलितम् ॥ १८ ॥ वपुष्मता पौष्कल्यवता । मानुषेण शरीरेणान्तर्हितः । शैलेन शिलारूपेण शरीरेग तु महोदव सागरोपरि, स्थित इति शेषः ॥ १९-२१ ॥ ममेति । प्रदिष्टः दत्तः । विहितः लब्धः ॥ २२-२५ ॥ विषये सती विषयवासिनी ॥ २६ ॥ २७ ॥ नातिवर्तेत नातिकपेत। मां प्राप्तो मदादारता प्राप्तो न गच्छेदित्यर्थः ॥ २८ ॥ ततोऽर्द्धगुणविस्तारः ततो दशयोजनादर्धस्य पचयोजनस्य गुण आवृत्तिः तद्विस्तारो दश योजनविस्तारः । प्रथमसर्गे दशयोजन
For Private And Personal