________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
बा.रा.भू.
यच्च रक्षितव्यं गोप्तव्यं तत् । आत्मवान् बुद्धिमान् । भवान् व्याकरोतु ॥ ५ ॥ ६ ॥ प्रत्यक्षमेत्रेति । इदं न वक्तव्यमेवेति भावः । आप्लुतः आप्लुतोस्मि । ॥१५६॥ पारं गन्तुमिति शेषः । समाहितः एकाग्रः । इत्येतद्भवतां प्रत्यक्षमेवेति सम्बन्धः ॥ ७ ॥ गच्छत इत्यादि । विप्ररूपमिव, वस्तुतो न तथेति भावः । प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः । उदधेर्दक्षिणं पारं कांक्षमाणः समाहितः ॥ ७॥ गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् । काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥ ८ ॥ स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ॥ ९ ॥ उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् । कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च ॥ १० ॥ प्रहतं च मया तस्य लांगूलेन महागिरेः । शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ॥ ११ ॥ व्यवसायं च तं बुध्वा स होवाच महागिरिः । पुत्रेति मधुर वाणीं मुनः प्रह्लादयन्निव ॥ १२ ॥ पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः । मैनाक मिति विख्यातं निवसन्तं महोदधौ ॥ १३ ॥ पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः । छन्दतः पृथिवीं चेरुर्वाध मानाः समन्ततः ॥ १४ ॥ श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः । चिच्छेद भगवान पक्षान् वच्चेणैषां सहस्रशः ॥ १५ ॥ अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना । मारुतेन तदा वत्स प्रक्षितोऽस्मि महार्णवे ॥ १६ ॥ रामस्य च मया साह्ये वर्तितव्यमरिन्दम । राम्रो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ॥ १७ ॥
पश्यामीत्यादौ व्यत्ययेन लट् । शिखरं विरूपमिभवत् तत् पश्यामीति योजनः ॥ ८ ॥ स्थितमिति । मेने इति लिट् तन रुपैकवचनं परोक्षत्वाद्य ॐ भावेपि च्छान्दसम् । अमनिपीत्यर्थः ॥ ९ ॥ उपसङ्गम्येति । गमनदशायामुरसा पातयामासेति सूचितं विवृणोति भेतव्योऽयमित्यादिना ।। १०-१२ ॥ ॐ पितृव्यं चेति । पितृव्यत्वे हेतुमाह सखायमिति । पितृतखत्वात् पितृव्यत्वव्यपदेश इत्यर्थः ॥ १३ ॥ छन्दतः यथेच्छम् ॥ १४ ॥ ॥ १५ ॥ मोक्षणप्रकारमाह प्रक्षिप्तोऽस्मि महार्णव इति ॥ १६ ॥ साधे साहाय्ये । साहाय्यकरणे हेतुमाह रामो धर्मभृतां श्रेष्ठ इति ॥ १७ ॥ पश्यामि अपश्यम् ॥ ८ ॥ मेने इति लिहुत्तमपुरुषैकवचनम् ॥ ९-११ । व्यवसायं स्वनेदनरू५ । १२ ॥ १३ ॥ छन्दः स्वेच्छयेत्यर्थः ॥ १४ ॥ चरितं प्रजा चाधनरूपम् ॥ १५ ॥ मोचनप्रकारमाह मारुतेनेति ॥ १६ ॥ साधे साहाय्ये तत्र धर्म इत्यादि ॥ १७ ॥
For Private And Personal
टी. सुं.कां. स० ५८
| ।। १५६