________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
कीर्तिमतात हनुमद्विशेषणम् । यशस्विनेत्यङ्गदविशेषणम् । भृत्यकीर्त्या स्वामिनः कीर्तिः । अन्यथा पौनरुक्त्यात् । यद्वा बुद्धिमत्त्व जन्या कीर्तिः शौर्यजन्यं यशः ॥ ५१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ ५७ ॥
दर्शनं चापि लङ्कायाः सीताया रावणस्य च । तस्थुः प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः ॥ ४९ ॥ तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः । उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ॥ ५० ॥ हनूमता कीर्तिमता यशस्विना तथा ऽङ्गदेनाङ्गबद्धवाना। मुद्दा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाऽभवत् ॥५१॥ इत्यार्षे श्रीरामाय गे वाल्मीकी आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः । हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥ १ ॥ तं ततः प्रीतिसंह : प्रीतिमन्तं महाकपिम् । जाम्बवान् कार्यवृत्तान्तमष्टच्छदनिलात्मजम् ॥ २ ॥ कथं दृष्टा त्वया देवी कथं वा वर्तते । तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ॥ ३ ॥ तत्त्वतः सर्वमेतन्नः अब्रूहि त्वं महाकपे । श्रुतार्थाश्चित यिष्यामो भूयः कार्यविनिश्चयम् ॥ ४॥ यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् । रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः ॥ ५ ॥ स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः । प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ॥ ६ ॥ ततस्तस्येत्यादि ॥ १ ॥ तमिति । कार्यवृत्तान्तं कार्यविषयवृत्तान्तम्, सीतादर्शनविषयवृत्तान्तम् ॥ २ ॥ कथमिति । कथं केन प्रकारेण । कथं वृत्तः कीदृग्व्यापारः ॥ ३ ॥ तत्त्वत इति । तत्त्वकथनस्य प्रयोजनमाह श्रुतार्था इत्यादि ॥ ४ ॥ यश्चेति । तत्र रामसन्निधौ योऽर्थो वव्यः वक्तुमर्हः विबुधैर्देवैरुपास्यमान इत्यर्थः ॥ ५० ॥ हनूमतेति । यशस्विनेति अङ्गदविशेषणम् । अतो न पुनरुक्तिः ॥ ५१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व दीपिकाख्यायां सुन्दरकाण्डव्याख्यायां सप्तपञ्चाशः सर्गः ॥ ५७ ॥ हनुमत्प्रमुखाः परस्परं मिलिता इति शेषः ॥ १ ॥ कार्यविषयं नान्तम् ॥ २ ॥ दशाननः कथंवृत्तः कीदृग्व्यापारः ॥ ३ ॥ ४ ॥ यश्चेति । तत्र रामसन्निधौ । रक्षितव्यं गोपनीयम् अवक्तव्यमिति यावत् । आत्मवान् भवान् ॥ ५-७ ॥
For Private And Personal