________________
Shri Mahavir Jain Aradhana Kendra
आ.रा.भू. १५७॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स०५८
इति । अर्धगुणविस्तारः अत्रार्धशब्दः एकदेशवाची । किंचिदधिकविस्तारोऽभवमित्यर्थः । एवमेवार्थः प्रथमतगौकशतयोजनविस्तारस्तु विरुद्धः । टी. मुं. कॉ. तद्रन्थः कल्पितश्वेत्युक्तम् । मत्प्रमाणेति । व्यादितं व्यात्तम् ॥ २९ ॥ तदृट्वेति । ह्रस्वत्वं विशेषयति अङ्गुष्ठमात्रक इति ॥ ३० ॥ ३१ ॥ अर्थसिद्धयै तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः । तस्मिन् मुहूर्ते च पुनर्बभूवाष्ठमात्रकः ॥ ३० ॥ अभिपत्याशु तद्वक्रं निर्गतोऽहं ततः क्षणात् । अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः ॥ ३१ ॥ अर्थसिद्धयै हरि श्रेष्ठ गच्छ सौम्य यथासुखम् । समानय च वैदेहीं राघवेण महात्मना । सुखी भव महाबाहो प्रीताऽस्मि तव वानर ॥ ३२ ॥ ततोऽई साधु साध्वीति सर्वभूतैः प्रशंसितः ॥ ३३ ॥ ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा । छाया मे निगृहीता च न च पश्यामि किंचन ॥ ३४ ॥ सोऽहं विगत वेगस्तु दिशो दश विलोकयन् । न किंचित्तत्र पश्यामि येन मेऽपहता गतिः ॥ ३५ ॥ ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम । ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ॥ ३६ ॥ अधोभागे न मे दृष्टिः शोचता पातिता मया । ततोऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् । ३७ ॥ प्रहस्य च महानादमुक्तोऽहं श्रीमाया। अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ॥ ३८ ॥ कातिपदा महाकाय क्षुधिताया ममेप्सितः । भक्षः प्रीणय में देहं चिरमाहारवर्जितम् ॥ ३९ ॥ वाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः । आस्य प्रमाणादधिकं तस्याः कायमपूरयम् । तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ॥ ४० ॥
इति । समानय संयोजय ॥ ३२ ॥ ततोऽहमिति । साधु साध्वीति दीर्घ छान्दसः ॥ ३३-३६ ।। अधोभागे नेति । सलिलेशयां सलिले स्थिताम् ॥३७॥ अवस्थितं दृढभूतम् । असम्भ्रान्तम् अव्यग्रम् ॥ ३८ ॥ ३९ ॥ तस्याः आस्यप्रमाणादधिकं यथा तथा कायम् आत्मदेहम् अपूरयम् अवर्धयम् । विस्तारोक्त्यानुगुण्येनैवं व्याख्यातम् ॥ २९ ॥ ह्रस्वम्, स्वशरीरमिति शेषः ॥ ३० ॥ ३१ ॥ समानय सङ्गमय ॥ ३२ ॥ साधु साध्वीत्यत्र दीर्घ आर्षः ||३३ ॥ ३४ ॥ न पश्यामि नापश्यम् । येन गतिर्विहता तत्किञ्चिन्न पश्यामि नापश्यमित्यन्वयः ॥ ३५-३७ ॥ अवस्थितं निश्चेष्टम् । तथाप्यसम्भ्रान्तं भयहीनम् मां लक्षी कृत्येदं वाक्यमहमुक्त इत्यन्वयः ॥ ३८ ॥ ममेप्सितः भक्षस्त्वं मतो मे देहं प्रीणयेत्यन्वयः ॥ ३९ ॥ तस्या आस्यप्रमाणादधिकं कायम् आत्मनः कायम् अपूरयम्
For Private And Personal
॥ १५७॥