Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 320
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बा.रा.भू. यच्च रक्षितव्यं गोप्तव्यं तत् । आत्मवान् बुद्धिमान् । भवान् व्याकरोतु ॥ ५ ॥ ६ ॥ प्रत्यक्षमेत्रेति । इदं न वक्तव्यमेवेति भावः । आप्लुतः आप्लुतोस्मि । ॥१५६॥ पारं गन्तुमिति शेषः । समाहितः एकाग्रः । इत्येतद्भवतां प्रत्यक्षमेवेति सम्बन्धः ॥ ७ ॥ गच्छत इत्यादि । विप्ररूपमिव, वस्तुतो न तथेति भावः । प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः । उदधेर्दक्षिणं पारं कांक्षमाणः समाहितः ॥ ७॥ गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् । काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥ ८ ॥ स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ॥ ९ ॥ उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् । कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च ॥ १० ॥ प्रहतं च मया तस्य लांगूलेन महागिरेः । शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ॥ ११ ॥ व्यवसायं च तं बुध्वा स होवाच महागिरिः । पुत्रेति मधुर वाणीं मुनः प्रह्लादयन्निव ॥ १२ ॥ पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः । मैनाक मिति विख्यातं निवसन्तं महोदधौ ॥ १३ ॥ पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः । छन्दतः पृथिवीं चेरुर्वाध मानाः समन्ततः ॥ १४ ॥ श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः । चिच्छेद भगवान पक्षान् वच्चेणैषां सहस्रशः ॥ १५ ॥ अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना । मारुतेन तदा वत्स प्रक्षितोऽस्मि महार्णवे ॥ १६ ॥ रामस्य च मया साह्ये वर्तितव्यमरिन्दम । राम्रो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ॥ १७ ॥ पश्यामीत्यादौ व्यत्ययेन लट् । शिखरं विरूपमिभवत् तत् पश्यामीति योजनः ॥ ८ ॥ स्थितमिति । मेने इति लिट् तन रुपैकवचनं परोक्षत्वाद्य ॐ भावेपि च्छान्दसम् । अमनिपीत्यर्थः ॥ ९ ॥ उपसङ्गम्येति । गमनदशायामुरसा पातयामासेति सूचितं विवृणोति भेतव्योऽयमित्यादिना ।। १०-१२ ॥ ॐ पितृव्यं चेति । पितृव्यत्वे हेतुमाह सखायमिति । पितृतखत्वात् पितृव्यत्वव्यपदेश इत्यर्थः ॥ १३ ॥ छन्दतः यथेच्छम् ॥ १४ ॥ ॥ १५ ॥ मोक्षणप्रकारमाह प्रक्षिप्तोऽस्मि महार्णव इति ॥ १६ ॥ साधे साहाय्ये । साहाय्यकरणे हेतुमाह रामो धर्मभृतां श्रेष्ठ इति ॥ १७ ॥ पश्यामि अपश्यम् ॥ ८ ॥ मेने इति लिहुत्तमपुरुषैकवचनम् ॥ ९-११ । व्यवसायं स्वनेदनरू५ । १२ ॥ १३ ॥ छन्दः स्वेच्छयेत्यर्थः ॥ १४ ॥ चरितं प्रजा चाधनरूपम् ॥ १५ ॥ मोचनप्रकारमाह मारुतेनेति ॥ १६ ॥ साधे साहाय्ये तत्र धर्म इत्यादि ॥ १७ ॥ For Private And Personal टी. सुं.कां. स० ५८ | ।। १५६

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365