Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 319
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir कीर्तिमतात हनुमद्विशेषणम् । यशस्विनेत्यङ्गदविशेषणम् । भृत्यकीर्त्या स्वामिनः कीर्तिः । अन्यथा पौनरुक्त्यात् । यद्वा बुद्धिमत्त्व जन्या कीर्तिः शौर्यजन्यं यशः ॥ ५१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ ५७ ॥ दर्शनं चापि लङ्कायाः सीताया रावणस्य च । तस्थुः प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः ॥ ४९ ॥ तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः । उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ॥ ५० ॥ हनूमता कीर्तिमता यशस्विना तथा ऽङ्गदेनाङ्गबद्धवाना। मुद्दा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाऽभवत् ॥५१॥ इत्यार्षे श्रीरामाय गे वाल्मीकी आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥ ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः । हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥ १ ॥ तं ततः प्रीतिसंह : प्रीतिमन्तं महाकपिम् । जाम्बवान् कार्यवृत्तान्तमष्टच्छदनिलात्मजम् ॥ २ ॥ कथं दृष्टा त्वया देवी कथं वा वर्तते । तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ॥ ३ ॥ तत्त्वतः सर्वमेतन्नः अब्रूहि त्वं महाकपे । श्रुतार्थाश्चित यिष्यामो भूयः कार्यविनिश्चयम् ॥ ४॥ यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् । रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः ॥ ५ ॥ स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः । प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ॥ ६ ॥ ततस्तस्येत्यादि ॥ १ ॥ तमिति । कार्यवृत्तान्तं कार्यविषयवृत्तान्तम्, सीतादर्शनविषयवृत्तान्तम् ॥ २ ॥ कथमिति । कथं केन प्रकारेण । कथं वृत्तः कीदृग्व्यापारः ॥ ३ ॥ तत्त्वत इति । तत्त्वकथनस्य प्रयोजनमाह श्रुतार्था इत्यादि ॥ ४ ॥ यश्चेति । तत्र रामसन्निधौ योऽर्थो वव्यः वक्तुमर्हः विबुधैर्देवैरुपास्यमान इत्यर्थः ॥ ५० ॥ हनूमतेति । यशस्विनेति अङ्गदविशेषणम् । अतो न पुनरुक्तिः ॥ ५१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व दीपिकाख्यायां सुन्दरकाण्डव्याख्यायां सप्तपञ्चाशः सर्गः ॥ ५७ ॥ हनुमत्प्रमुखाः परस्परं मिलिता इति शेषः ॥ १ ॥ कार्यविषयं नान्तम् ॥ २ ॥ दशाननः कथंवृत्तः कीदृग्व्यापारः ॥ ३ ॥ ४ ॥ यश्चेति । तत्र रामसन्निधौ । रक्षितव्यं गोपनीयम् अवक्तव्यमिति यावत् । आत्मवान् भवान् ॥ ५-७ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365