Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 317
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir यथा मनुष्याः दूरस्थस्वकीयानयनाय वासांसि धून्वन्ति तथा वानराश्चान्योन्याह्वानाय पुष्पितशाखाः गृहीत्वा प्रशाखाः प्रागपशाखाः समा विद्धयन्त पर्यभ्रामयन् ॥ २७ ॥२८॥ अभ्रघनसङ्काशम् अभ्रसमूहतुल्यम् ॥ २९ ॥ निपपात निर्भरमाकान्तवान् ॥ ३० ॥ पपातेति । अच्छिन्नपक्षस्य गिरिगह्वरसंलीनो यथा गर्जति मारुतः। एवं जगर्ज बलवान् हनूमान् मारुतात्मजः ॥ २८॥ तमभ्रघनसङ्काश मापतन्तं महाकपिम् । दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ॥२९॥ ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः । निपपात महेन्द्रस्य शिखरे पादपाकुले ॥३०॥ हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे । छिन्नपक्ष इवाकाशात् पपातधरणीधरः॥३१॥ ततस्ते प्रीतमनमः सर्वे वानरपुङ्गवाः। हनुमन्तं महात्मानं परिवार्योप तस्थिरे। परिवार्य च ते सर्वे परां प्रीतिमुपागताः ॥ ३२॥ प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् । उपायनानि चादाय मूलानि च फलानि च । प्रत्यर्चयन् हरिश्रेष्ठं हरयो मास्तात्मजम् ॥ ३३ ॥ हनुमांस्तु गुरुन् वृद्धान् जाम्बवत्प्रमुखांस्तदा। कुमारमङ्गदं चैव सोऽवन्दत महाकपिः ॥ ३४ ॥ स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः। दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत् ॥ ३५॥ पातासम्भवाच्छिन्नपक्ष इत्युक्तम् ॥३१॥३२॥ प्रहृष्टवदनाः प्रसन्नमुखाः, आसन्निति शेषः । अरोगं कुशालनमित्यर्थः । उपायनानि उपहारान् ॥३३॥ हनुमास्त्वित्यादि । कुमारमङ्गन्दं चेति, स्वामित्वादिति भावः ॥ ३४-३९ ॥ अभ्रधनसङ्काशं मेघसमूहसदृशम् ॥ २९ ॥ ततो गिरेः अरिष्टाख्याद्रेः प्लुतः कपिः तस्य महेन्द्रस्य गिरेः शिखरे निपपात, अनेनाविश्रममागमनं ध्वनितम् ॥३०॥ छिन्नपक्षो धरणीधर इवाकाशात्पपात । हर्षेणापूर्यमाणः पूर्यमाणहृदयः । पर्वतनिर्झरे निर्झरप्रवर्तके शिखरे इत्यर्थ इत्येके । श्रमनिवृत्तये जल एव पतित| इत्यन्ये ॥३१-३४ ॥ ताभ्यां जाम्बवदङ्गदाभ्याम् । प्रसादितः प्रसन्नदृष्टया कारितात्मनिरीक्षणः ॥३५-४१॥ | स-छिन्नपक्षः धरणीधरः पर्वत इस पपात, अनेन मान्द्याभावः सूच्यते । छिदिति मावे सम्पदादि कियन्तः । गित् छिदान ययोस्तो छिन्नौ । नशब्दो निषेधार्थकः । तस्य छिछम्दानन्तरर्व जन इत्यादिवत् । पोयम् । ततश्च अच्छिन्नौ पक्षौ यस्य सः । एवोत् हर्षापूर्यमाणता विवक्षितस्थललामो विजयेनागमन चेति बर्य लाभो भवतीति बोध्यम् ॥३१॥ परी पूर्वप्रीतितोप्युत्कष्टाम् । सन्तोषातिशयेन सर्व इति द्विरुक्तिः ।। सर्वे रुटे । लसोपमेयम् । ते दूताः त्रिपुरं हत्वा आयाते रुदे इति वा । “सर्वो ह्येष रुद्रः" इति श्रुतेः । “सर्वशर्वः कालंजरः शिवः" इति नामनिधानात ॥ ३२ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365