Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 315
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyarmandir इत्युपमया तिलतण्डुलवत्संमृष्टिः ॥॥४॥अथ तदेवोत्प्रेक्षया वर्णयति-असमान इवेत्यादिना ॥५॥६॥ पाण्डरेति । व्यक्ताव्यक्तवाचित्वेन अरुणशब्दयोः । कथंचिदपौनरुक्त्यमुन्नेयम् । यद्वा “अरुणः कृष्णलोहितः" इत्यमरशेषः । महाभ्राणि चकाशिरे, हनुमत्सम्पर्कादित्यर्थः । अन्यथा वाजपेयशरद्वर्णनवत् ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् । हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ॥५॥ मारुतस्यात्मजः श्रीमान कपिर्योमचरो महान्। हनुमान मेघजालानि विकर्षन्निव गच्छति॥६॥ पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च । हरितारुणवर्णानि महाभ्राणि चकाशिरे ॥७॥ प्रविशनभ्रजालानि निष्पतंश्च पुनः पुनः । प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥८॥ विविधाभ्रघनापन्नगोचरो धवलाम्बरः । दृश्यादृश्यतनु रस्तदा चन्द्रायतेऽम्बरे ॥९॥ ताायमाणो गगने बभासे वायुनन्दनः।दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः॥ १०॥ नदन्नादेन महता मेघस्वनमहास्वनः। प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः ॥ ११॥ आकुलां नगरी कृत्वा व्यथयित्वा च रावणम् । अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च ॥१२॥ आजगाम महातेजाः पुनर्मध्येन सागरम् ॥१३॥ पर्वतेन्द्रं सुनाभं च समुपस्टश्य वीर्यवान् । ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः ॥१४॥ स किंचिदनु संप्राप्तः समालोक्य महागिरिम् । महेन्द्र मेघसङ्काशं ननाद हरिपुङ्गवः ॥१५॥ अभ्रवर्णनस्यासङ्गतत्वापातः। हनुमतस्तेजस्वीत्यनेन मेघानां नानावर्णत्वापत्तिः सूर्येन्दुसम्पर्कवत्॥७॥८॥ विविधेष्वभ्रषनेषु मेघसङ्घातेषु । आपनगोचरः प्राप्तविषयः । लब्धमार्ग इति यावत् । धवलाम्बरः शुक्लवासाः। दृश्यादृश्यतनुः मेघान्तःप्रवेशनिष्कमणाभ्यामिति भावः । चन्द्रायते चन्द्र इवाचरति ॥९॥ ताय॑ इवाचरन् ताायमाणः । उभयत्र “ उपमानादाचारे” “कर्तुः क्यङ्स लोपश्च" इति क्यङ् ॥१०-१३ ॥ सुनाभं मैनाकम् ॥१४॥ किंचि । ताराधिपमुल्लिखन्निव, नखैरिति शेषः । हरन्निव गृहन्निव ॥५॥६॥ महावाणीत्यस्य कपिना कृष्यमाणानीति शेषः ॥७॥ ८॥ विविधेति। विविधाभ्रघनापन्नगोचरः विविधेयभ्रघनेषु मेघसङ्घातेष्वापन्नः प्राप्तः गोचरो मार्गो येन सः । दृश्यादृश्यतनुः मेघान्तःप्रवेशनिष्क्रमाभ्यामिति भावः ॥९-१३ ॥ सुनाभं मैनाकम् ॥१४-१७॥ For Private And Personal

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365