________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyarmandir
इत्युपमया तिलतण्डुलवत्संमृष्टिः ॥॥४॥अथ तदेवोत्प्रेक्षया वर्णयति-असमान इवेत्यादिना ॥५॥६॥ पाण्डरेति । व्यक्ताव्यक्तवाचित्वेन अरुणशब्दयोः । कथंचिदपौनरुक्त्यमुन्नेयम् । यद्वा “अरुणः कृष्णलोहितः" इत्यमरशेषः । महाभ्राणि चकाशिरे, हनुमत्सम्पर्कादित्यर्थः । अन्यथा वाजपेयशरद्वर्णनवत् ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् । हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ॥५॥ मारुतस्यात्मजः श्रीमान कपिर्योमचरो महान्। हनुमान मेघजालानि विकर्षन्निव गच्छति॥६॥ पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च । हरितारुणवर्णानि महाभ्राणि चकाशिरे ॥७॥ प्रविशनभ्रजालानि निष्पतंश्च पुनः पुनः । प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥८॥ विविधाभ्रघनापन्नगोचरो धवलाम्बरः । दृश्यादृश्यतनु रस्तदा चन्द्रायतेऽम्बरे ॥९॥ ताायमाणो गगने बभासे वायुनन्दनः।दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः॥ १०॥ नदन्नादेन महता मेघस्वनमहास्वनः। प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः ॥ ११॥ आकुलां नगरी कृत्वा व्यथयित्वा च रावणम् । अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च ॥१२॥ आजगाम महातेजाः पुनर्मध्येन सागरम् ॥१३॥ पर्वतेन्द्रं सुनाभं च समुपस्टश्य वीर्यवान् । ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः ॥१४॥ स किंचिदनु संप्राप्तः समालोक्य महागिरिम् । महेन्द्र मेघसङ्काशं ननाद हरिपुङ्गवः ॥१५॥ अभ्रवर्णनस्यासङ्गतत्वापातः। हनुमतस्तेजस्वीत्यनेन मेघानां नानावर्णत्वापत्तिः सूर्येन्दुसम्पर्कवत्॥७॥८॥ विविधेष्वभ्रषनेषु मेघसङ्घातेषु । आपनगोचरः प्राप्तविषयः । लब्धमार्ग इति यावत् । धवलाम्बरः शुक्लवासाः। दृश्यादृश्यतनुः मेघान्तःप्रवेशनिष्कमणाभ्यामिति भावः । चन्द्रायते चन्द्र इवाचरति ॥९॥ ताय॑ इवाचरन् ताायमाणः । उभयत्र “ उपमानादाचारे” “कर्तुः क्यङ्स लोपश्च" इति क्यङ् ॥१०-१३ ॥ सुनाभं मैनाकम् ॥१४॥ किंचि । ताराधिपमुल्लिखन्निव, नखैरिति शेषः । हरन्निव गृहन्निव ॥५॥६॥ महावाणीत्यस्य कपिना कृष्यमाणानीति शेषः ॥७॥ ८॥ विविधेति। विविधाभ्रघनापन्नगोचरः विविधेयभ्रघनेषु मेघसङ्घातेष्वापन्नः प्राप्तः गोचरो मार्गो येन सः । दृश्यादृश्यतनुः मेघान्तःप्रवेशनिष्क्रमाभ्यामिति भावः ॥९-१३ ॥ सुनाभं मैनाकम् ॥१४-१७॥
For Private And Personal