________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
भा.रा.भ. ॥१५॥
र्मु
.का.
दनुसंप्राप्तः मैनाकात्परं कंचित् प्रदेश प्राप्तः ॥ १५॥ १६॥ लालसः साभिलाषः। तं देशं सुहृदावाससनीपप्रदेशम् ॥ १७॥ नानद्यमानस्य पुन पुनर्भृशं नदत इत्यर्थः । फलतीव दलतीव ॥ १८॥ वातनुन्नस्य वातसहितस्य । पोषम् ऊरुवेगमिति, ऊरुवेगजन्यं घोषमित्यर्थः ॥१९॥२०॥
स पूरयामास कपिर्दिशो दश समन्ततः। नदन्नादेन महता मेघस्वनमहास्वनः॥ १६ ॥ स तं देशमनुप्राप्तः सुह दर्शनलालसः। ननाद हरिशार्दूलो लाङ्गुलं चाप्यकम्पयत् ॥१७॥ तस्य नानद्यमानस्य सुपर्णचरिते पथि। फलती वास्य घोषेण गगनं सार्कमण्डलम् ॥ १८॥ ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः। पूर्व संविष्ठिताः शरा वायु पुत्रदिदृक्षवः ॥ १९॥ महतो वायुनुन्नस्य तोयदस्येव गर्जितम् । शुश्रवुस्ते तदा घोषमूरुवेगं हनूमतः ॥ २०॥ ते दीनमनसः सर्वे शुश्रुवुः काननौकसः। वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ॥२३॥ निशम्य नदतो नादं वानरा स्ते समन्ततः । बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाक्षिणः ॥२२॥ जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः । उपामन्त्र्य हरीन सर्वानिदं वचनमब्रवीत् ॥२३॥ सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः। न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ॥२४॥ तस्य बाहरवेगं च निनादं च महात्मनः । निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ॥२५॥ ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च । प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ॥ २६ ॥ ते प्रीताः
पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः। वासांसीव प्रशाखाश्च समाविध्यन्त वानराः ॥२७॥ ते दीनमनस इति । अनिष्टश्रवणशङ्कयति भावः॥२१-२४ ॥ तस्येति । निशम्प ज्ञात्वेत्यर्थः । यद्वा दृष्ट्वा चेत्यध्याहार्यम् । अन्यथा बाहूरुवेग पदानन्वयात् ॥२५॥ समुत्पनुरित्युक्तं विवृणोति-ते नगाग्रादिति । नगायात् वृक्षापात् । समपद्यन्त सङ्घीभूताः ॥२६॥ प्रीता इति हेतुगर्भ विशेषणम् ।। फलनीव दलतीव । ये पूर्व संविष्ठिताः ते तोयदनिस्वनमिव ऊरुवेगं तजन्यं घोषं शुश्रुवुरित्यन्वयः ॥ १८-२०॥वानरेन्द्रस्य निर्घोषं तदीयसिंहनादम् ॥२१॥ सुदर्शनकाक्षिणः तेन शब्देन हनुमानेवैतीति निश्चित्य तदर्शनलालसाः ॥ २२-२४ ॥ वाहरुवेगं तजन्यशब्दं निनावं च कण्ठशब्दं च ॥ २५ ॥ नगासात् स्वाश्रयादूध्वेदेशस्थानि नगामाणीत्यर्थः ॥२५॥ पादपामेषु निष्ठिताः प्रशाखाः प्रापशाखा वासासीव समाविध्यन्त व्याधुन्वन् ॥ २७ ॥२८॥
॥१५॥
For Private And Personal