Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 328
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्या.रा.भू. विधिः उपायः ॥ ९२- १०१ ॥ रामानु० - तन्मे शंसितुमईसीत्यतः परं तस्यास्तद्वचनं श्रुत्वा ह्यइमप्यब्रवं वचः । इत्यर्थे द्रष्टव्यम् । केषुचित्कोशेषु प्रमादात्पातितम् ॥ ९४-९५ ॥ तदिति । त्वया आज्ञप्तमिच्छामि त्वत्कर्तृकमाज्ञापन मिच्छामीत्यर्थः । किंशब्दः क्षेपे । रामलक्ष्मणयोः पार्श्वे त्वां नयामि । उत्तरं किम् एवमेवं वदेत्याज्ञापनरूपमुत्तरं किमित्यर्थः ॥ ९८ ॥ ॥१५०॥ सम्भाषणाथ च मया जानक्याश्चिन्तितो विधिः । इक्ष्वाकूणां हि वशस्तु ततो मम पुरस्कृतः ॥ ९२ ॥ श्रुला तु गदितां वाचं राजर्षिगणपूजिताम् । प्रत्यभाषत मां देवी वाष्पैः पिहितलोचना ॥ ९३ ॥ कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव । काच रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ॥ ९४ ॥ तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रवं वचः । देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः । सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ॥ ९५ ॥ तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् । भर्त्राऽहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥ ९६ ॥ इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् । अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ॥ ९७ ॥ तदिच्छामि त्वयाऽऽज्ञतं देवि किं करवाण्यहम् । रामलक्ष्मणयोः पार्श्व नयामि त्वां किमुत्तरम् ॥ ९८ ॥ एतच्छ्रुत्वा विदित्वा च सीता जनक नन्दिनी । आह रावणमुत्साद्य राघवो मां नयत्विति ॥ ९९ ॥ प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् । राघवस्य मनोह्रादमभिज्ञानमयाचिषम् ॥ १०० ॥ अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः । मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ॥ १०१ ॥ इत्युक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् । प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह ॥ १०२ ॥ ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः । प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ॥ १०३ ॥ इत्युक्त्वेति । वाचा मां संदिदेशेति । स्वरामैकवेद्यं प्रागुक्तं काकासुरवृत्तान्तं तिलकनिर्माणादिकं च सन्दिष्टवतीत्यर्थः ॥ १०२ ॥ परिकामं पुरुषैकवचनम् ॥९१॥ मम मया पुरस्कृतः स्तुतः ॥९२-९७ ॥ त्वया आज्ञप्तमिच्छामि त्वत्कर्तृकमाज्ञापनमिच्छामीत्यर्थः ॥९८-१०१ ॥ इत्युक्त्वेति । वाचा मां सन्दिदेश स्वरामैकवेद्यं प्रागुक्तं काकासुरवृत्तान्तं ति लकनिर्माणादिकं च सन्दिष्टवतीत्यर्थः ॥ १०२ ॥ इहाभ्युद्गतमानसः इहागन्तुं निश्चितमानसः ॥ १०३ ॥ For Private And Personal टी. सुं.कां. स० ५८ ॥ १६०॥

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365