________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्या.रा.भू. विधिः उपायः ॥ ९२- १०१ ॥ रामानु० - तन्मे शंसितुमईसीत्यतः परं तस्यास्तद्वचनं श्रुत्वा ह्यइमप्यब्रवं वचः । इत्यर्थे द्रष्टव्यम् । केषुचित्कोशेषु प्रमादात्पातितम् ॥ ९४-९५ ॥ तदिति । त्वया आज्ञप्तमिच्छामि त्वत्कर्तृकमाज्ञापन मिच्छामीत्यर्थः । किंशब्दः क्षेपे । रामलक्ष्मणयोः पार्श्वे त्वां नयामि । उत्तरं किम् एवमेवं वदेत्याज्ञापनरूपमुत्तरं किमित्यर्थः ॥ ९८ ॥
॥१५०॥
सम्भाषणाथ च मया जानक्याश्चिन्तितो विधिः । इक्ष्वाकूणां हि वशस्तु ततो मम पुरस्कृतः ॥ ९२ ॥ श्रुला तु गदितां वाचं राजर्षिगणपूजिताम् । प्रत्यभाषत मां देवी वाष्पैः पिहितलोचना ॥ ९३ ॥ कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव । काच रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ॥ ९४ ॥ तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रवं वचः । देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः । सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ॥ ९५ ॥ तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् । भर्त्राऽहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥ ९६ ॥ इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् । अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ॥ ९७ ॥ तदिच्छामि त्वयाऽऽज्ञतं देवि किं करवाण्यहम् । रामलक्ष्मणयोः पार्श्व नयामि त्वां किमुत्तरम् ॥ ९८ ॥ एतच्छ्रुत्वा विदित्वा च सीता जनक नन्दिनी । आह रावणमुत्साद्य राघवो मां नयत्विति ॥ ९९ ॥ प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् । राघवस्य मनोह्रादमभिज्ञानमयाचिषम् ॥ १०० ॥ अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः । मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ॥ १०१ ॥ इत्युक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् । प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह ॥ १०२ ॥ ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः । प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ॥ १०३ ॥ इत्युक्त्वेति । वाचा मां संदिदेशेति । स्वरामैकवेद्यं प्रागुक्तं काकासुरवृत्तान्तं तिलकनिर्माणादिकं च सन्दिष्टवतीत्यर्थः ॥ १०२ ॥ परिकामं पुरुषैकवचनम् ॥९१॥ मम मया पुरस्कृतः स्तुतः ॥९२-९७ ॥ त्वया आज्ञप्तमिच्छामि त्वत्कर्तृकमाज्ञापनमिच्छामीत्यर्थः ॥९८-१०१ ॥ इत्युक्त्वेति । वाचा मां सन्दिदेश स्वरामैकवेद्यं प्रागुक्तं काकासुरवृत्तान्तं ति लकनिर्माणादिकं च सन्दिष्टवतीत्यर्थः ॥ १०२ ॥ इहाभ्युद्गतमानसः इहागन्तुं निश्चितमानसः ॥ १०३ ॥
For Private And Personal
टी. सुं.कां.
स० ५८
॥ १६०॥