________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
तापर्यक्रामम् । इहाभ्युद्तमानसः इहाभ्युद्गते इहाभ्यागमने मानसं यस्य स तथा ॥ १०३-१०५ ॥ एतत् उपयानं यद्यन्यथा भवेत् यदि नोपेयाता मित्यर्थः । तदा द्वौ मासौ मम जीवितम् ततः परं न जीवामीत्यर्थः । न मां द्रक्ष्यति मासद्याभ्यन्तरे मां न द्रक्ष्यति चेत् तदा म्रिय इति योज्यम् ।
उत्तरं पुनरेवेदं निश्चित्य मनसा तया। हनुमन् मम वृत्तान्तं वक्तमर्हसि राघवे॥१०४॥ यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ । सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ॥ १०५॥ यद्यन्यथा भवेदेतही मासौ जीवितं मम । न मां द्रक्ष्यति काकुत्स्थो म्रिये साऽहमनाथवत्॥१०६॥ तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत । उत्तरं च मया दृष्टं कार्यशेषमनन्तरम्॥१०७॥ ततोऽवर्धत मे कायस्तदापर्वतसन्निभः। युद्धकांक्षी वनं तच्च विनाशयितुमारभे ॥१०८॥ तद्भग्रं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् । प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ॥ १०९॥ मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः । ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥ ११॥ राजन् वनमिदं दुर्ग तव भग्नं दुरात्मना। वानरेण ह्यविज्ञाय तव वीर्य महाबल ॥ १११॥ दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः । वधमाज्ञापय क्षिप्रं यथाऽसौ विलयं व्रजेत् ॥ १२ ॥ तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः । राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः॥११३॥ तेषामशीतिसाहस्रं शूलमुद्रपाणिनाम् । मया तस्मिन् वनोद्देशे परि
घेण निषूदितम् ॥११४॥ तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः । निहतं च महत्सैन्यं रावणायाचचक्षिरे ॥११॥ मासशब्दोऽत्र पक्षपरः। "पक्षा वै मासाः" इति श्रुतेः ॥१०६॥ उत्तरम् अनन्तरम् । अनन्तरम् अनन्तरकर्तव्यम्, उत्तरकार्यमित्यर्थः॥१०७-११५॥ रामानु-शूलमुद्रपाणिनामित्यत्र दीर्घाभाव आर्षः ॥ ११४ ॥ मम वृत्तान्तं त्वयाऽनुभूतं मद्विषयं रावणराक्षसीवृत्तान्तम्॥१०४॥१०५॥ यदि यस्मात अन्यथा अनागमने द्वो मासौ मम जीवितं भवेत् । अनाथवत म्रिये राक्षसीकृतवधे नेति भावः ॥१०६॥ उत्तरं कार्यशेषं लानाशनरूपम् ॥१०७-१०९॥ समागम्य मिलित्वा ॥११०-११३॥ शूलमुद्गरपाणिनामित्यत्र दीर्घाभाव आर्षः ॥ ११४-१२४ ॥
For Private And Personal