________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
टी..
वा.रा.भू. ॥१६१॥
ततो मे बुद्धिरुत्पन्ना वक्ष्यमाणकार्यविपयेत्यर्थः । तादृशं बुद्धिकार्यमाह चैत्येत्यादिना । चैत्यप्रासादं नगरमध्यस्थप्रासादम् । ललामभूतः ॥ ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् । तत्रस्थान राक्षसान हत्वा शतं स्तम्भेन वै पुनः । ललामभूतो लङ्कायाः स वैविध्वसितोमया ॥११६॥ ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् । राक्षसैबहुभिःसार्ध घोररूपैभयानकैः ॥ ११७॥ तमहं बलसम्पन्नं राक्षसं रणकोविदम् । परिघेणालिघोरेण मृदयामि सहानुगम् ॥ १८ ॥ तच्छ्रुत्वा राक्षसेन्द्रस्तुमन्त्रिपुत्रान् सहाबलान् ॥११९॥ पदातिबलसम्मन्नान प्रेषयामास रावणः। परिघेणैव तान सर्वान्नयामि यमसादनम् ॥१२०॥ मन्त्रिपुत्रान हताञ्छ्रुत्वा समरे लघुविक्रमान् । पञ्च सेनाग्रगाञ्छूरान् प्रेषयामास रावणः ॥ १२१ ॥ तानहं सहसैन्यान् वै सर्वानेवाभ्यमूदयम् । ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ॥ १२२ ॥ बहुभी राक्षसः साध प्रेषयामास रावणः । तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् ॥ २३ ॥ सहसा खं समुत्कान्तं पादयोश्च गृहीतवान् ! चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् । तमक्षमागतं भग्नं निशम्य स दशाननः॥१२४॥ तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् । व्यादिदेश सुसंकृद्धो बलिनं युद्धदुर्मदम् ॥ १२५॥ तच्चाप्यहं बलं सर्व तं च राक्षसपुङ्गवम् । नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ॥ १२६॥ महतापि महाबाहुः प्रत्ययेन महाबलः । प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः॥ १२७ ॥ सोऽविषयं हि मां बुद्ध्वा स्वबलं चावमादितम् । ब्राह्मणास्त्रेण
स तु मां प्राबध्नाच्चातिवेगितः॥ १२८॥ (अलङ्कारभूतः ॥ ११६-११९॥ पदातिबलप्तम्पन्नान् पदातिप्रभृतिसैन्यसंपन्नान् ॥ १२०-१३१ ॥ रामानु०-चर्मामिनमिल्पत्र दन्ना नवमार्षम् ॥ १२४ ॥ द्वितीयं पितपुत्रापेक्षया द्वितीयम् ।। १२५॥ द्वितीयं प्रेषितपुत्रापेक्षया द्वितीयम् ॥ १२५--१२८ ।।
For Private And Personal