________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
वृथागर्जितनिश्चेष्टाः वृथागर्जितेन निर्व्यापाराः ॥८॥ ततस्ता इति । तूष्णीं रक्षतेति रावणोक्ता इति शेपः । परिक्षिप्य परिवार्य ॥ ८२ ।। सुदुःखिता प्रशुशोच, उत्तरोत्तरं दुःखितवतीत्यर्थः ॥ ८३-८६ ॥ अलं शक्ता । " अलं भूषणपर्याप्तिशक्तिवारणवाचकम्" इत्यमरः । परित्रातुम्, एपेति शेषः।
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः। रावणाय शशंसुस्ताः सीताध्यवसितं महत् ॥ ८१॥ ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः । परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ॥८२॥ तासु चैव प्रसुप्तासु सीता भर्तृहिते रता । विलप्य करुणं दीना प्रशुशोच सुदुःखिता ॥ ८३ ॥ तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत् । आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ॥ ८४ ॥ जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च । स्वप्नो ह्यद्य मया दृष्टो दारुगो रोमहर्षणः ॥ ८५ ॥ रक्षसां च विनाशाय भर्तुरस्या जयाय च ॥ ८६ ॥ अलमस्मात् परित्रातुं राघवाद्राक्षसीगणम् । अभियाचाम वैदेहीमेतद्धि मम रोचते ॥ ८७ ॥ यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते । सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ॥ ८८॥ प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ॥८९॥ ततः सा ह्रीमतीबालाभतुर्विजयहर्षिता। अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः॥९०॥ तां चाहं तादृशीं दृष्ट्वा
सीताया दारुणां दशाम् । चिन्तयामास विकान्तो न च मे निर्वृतं मनः ॥ ९१॥ ॥ ८७ ॥ ८८ ॥ अपराधिजनप्राणवाणे हेतुमाह-प्रणिपातेति ॥ ८९ ॥ ततः त्रिजटावाक्यानन्तरम् । भजियहार्पता त्रिजटाकथितस्वमसूचितराम विजयहर्पिता! तत् त्रिजटास्वप्नवाक्यम् । शरणं हि व इत्यत्रेतिकरणं द्रष्टव्यम् ॥ ९॥ न च मे निवृतम् किन्तु दुःखितमित्यर्थः ॥९१ ।। समिधानादुभाभ्यामपीति कल्पनीयम् ॥ ७५-८६ ॥ अलमस्मात्परित्रातामति । इयं सीतेति शेषः ॥ ८७-८९ ॥ ततः त्रिजटावाक्यानन्तरम् । भर्तुविजयहर्षिता त्रिजटाकथितस्वमसूचितरामविजयहर्षिता । तत् त्रिजटास्त्रमवाक्यम् तथ्यं यदि शरणं भवेयमित्यवोचदिति सम्बन्धः ॥ ९॥ चिन्तयामासेति लिडुत्तम स०-राक्षसगण राघवात्परित्रातुम् अलं समर्था । प्रसादिता सीतेति शेषः । तस्मादभियाचाम प्रार्थयामः ॥ ८॥
For Private And Personal