Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 308
________________ Shri Mahavir Jain Aradhana Kendra जा.रा.भ. ॥ १५०॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रजोगुण निबन्धनचेष्टाविशेषम् । अनीशं नियामकरहितम् । स्वतन्त्रमिति यावत् । अवस्थितं कुलिभावम् । ईश्वरेणापि रक्षण समर्थेनापि । रागात् मात्सर्यात् । "रागोऽनुरागे मात्सर्ये रक्तवर्णे कुसुम्भके" इति यादवः । यद्वा रागात् रजोगुणात् । आग्रहादिति यावत् ॥ १७-२१ ॥ इतीति । निमित्ता विनष्टायां तु सीतायां तावुभौ विनशिष्यतः । तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ॥ १८ ॥ एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः । धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ॥ १९ ॥ इक्ष्वाकुवंशे धर्मिष्ठे गते नाशम संशयम् । भविष्यन्ति प्रजाः सर्वाः शोकसन्तापपीडिताः ॥ २० ॥ तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः। रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ॥ २१ ॥ इति चिन्तयस्तस्य निमित्तान्युपपेदिरे । पूर्वमप्युपलब्धानि साक्षात्पुनरचिन्तयत् ॥ २२ ॥ अथवा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा । न नशिष्यति कल्याणी नाभिरग्रौ प्रवर्तते ॥ २३ ॥ न हि धर्मात्मनस्तस्य भार्याममिततेजसः । स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः ॥ २४ ॥ नूनं रामप्रभावेन वैदेह्याः सुकृतेन च । यन्मां दहनकर्माऽयं नादद्धव्यवाहनः ॥ २५ ॥ त्र्याणां भरतादीनां भ्रातॄणां देवता च या । रामस्य च मनःकान्ता सा कथं विनशिष्यति ॥ २६ ॥ यद्वा दहनकर्माऽयं सर्वत्र प्रभुरव्ययः । न मे दहति लांगूलं कथमाय प्रवस्यति ॥२७॥ न्युपपेदिरे शुभशंसिनिमित्तानि प्रादुर्बभूवुरित्यर्थः ॥ २२ ॥ एवं लोकदृष्ट्या अनर्थमाशङ्कय तत्त्वदृष्टया समाधत्ते - अथवेत्यादिना । नाग्निरमौ प्रवर्तते | अग्निरनिं न दहतीत्यर्थः ॥ २३ ॥ २४ ॥ दहनकर्मा भस्मीकरणस्वभावः । यत्प्रभावादयं मां नादहत् स तामेव कथं दहतीत्यर्थः ॥ २५-३२ ॥ भावं रजोगुणनिबन्धनचेष्टाविशेषम् । अनीशं नियामकरहितम्, स्वतन्त्रमिति यावत् । ईश्वरेणापि रक्षणसमर्थेनापि । रागात मात्सर्यात, आग्रहादिति यावत् ॥ १७॥ उभी रामलक्ष्मणौ ॥ १८-२१ ॥ इतीति । निमित्तानि शुभशंसीनि । उपपेदिरे प्रादुर्बभूवुः ॥ २२ ॥ नाभिरम्रो प्रवर्तते अभिरग्निं न दहतीत्यर्थः ॥ २३ ॥ २४ ॥ नून मिति । द इनकर्मा भस्मीकरणस्वभावः । अयं हव्यवाहनः । मां तत्किरं माँ यत् यतो नादहत अतस्तां स्पष्टुं नार्हतीति पूर्वेण सम्बन्धः ॥ २५ ॥ त्रयाणां भरत लक्ष्मणशत्रुप्रानां देवतात्वात्तस्यामग्न्यप्रवृत्ती रामभयाचेति भावः ॥ २६ ॥ सर्वत्र प्रभुरपि यत्सेवकत्वान्मे लांगूलं न दहति ततस्तां कथं प्रवक्ष्यति ! ॥ २७ ॥ For Private And Personal टी.मुं.. स० ५५ ।। १५०॥

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365