________________
Shri Mahavir Jain Aradhana Kendra
जा.रा.भ.
॥ १५०॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रजोगुण निबन्धनचेष्टाविशेषम् । अनीशं नियामकरहितम् । स्वतन्त्रमिति यावत् । अवस्थितं कुलिभावम् । ईश्वरेणापि रक्षण समर्थेनापि । रागात् मात्सर्यात् । "रागोऽनुरागे मात्सर्ये रक्तवर्णे कुसुम्भके" इति यादवः । यद्वा रागात् रजोगुणात् । आग्रहादिति यावत् ॥ १७-२१ ॥ इतीति । निमित्ता
विनष्टायां तु सीतायां तावुभौ विनशिष्यतः । तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ॥ १८ ॥ एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः । धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ॥ १९ ॥ इक्ष्वाकुवंशे धर्मिष्ठे गते नाशम संशयम् । भविष्यन्ति प्रजाः सर्वाः शोकसन्तापपीडिताः ॥ २० ॥ तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः। रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ॥ २१ ॥ इति चिन्तयस्तस्य निमित्तान्युपपेदिरे । पूर्वमप्युपलब्धानि साक्षात्पुनरचिन्तयत् ॥ २२ ॥ अथवा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा । न नशिष्यति कल्याणी नाभिरग्रौ प्रवर्तते ॥ २३ ॥ न हि धर्मात्मनस्तस्य भार्याममिततेजसः । स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः ॥ २४ ॥ नूनं रामप्रभावेन वैदेह्याः सुकृतेन च । यन्मां दहनकर्माऽयं नादद्धव्यवाहनः ॥ २५ ॥ त्र्याणां भरतादीनां भ्रातॄणां देवता च या । रामस्य च मनःकान्ता सा कथं विनशिष्यति ॥ २६ ॥ यद्वा दहनकर्माऽयं सर्वत्र प्रभुरव्ययः । न मे दहति लांगूलं कथमाय प्रवस्यति ॥२७॥ न्युपपेदिरे शुभशंसिनिमित्तानि प्रादुर्बभूवुरित्यर्थः ॥ २२ ॥ एवं लोकदृष्ट्या अनर्थमाशङ्कय तत्त्वदृष्टया समाधत्ते - अथवेत्यादिना । नाग्निरमौ प्रवर्तते | अग्निरनिं न दहतीत्यर्थः ॥ २३ ॥ २४ ॥ दहनकर्मा भस्मीकरणस्वभावः । यत्प्रभावादयं मां नादहत् स तामेव कथं दहतीत्यर्थः ॥ २५-३२ ॥ भावं रजोगुणनिबन्धनचेष्टाविशेषम् । अनीशं नियामकरहितम्, स्वतन्त्रमिति यावत् । ईश्वरेणापि रक्षणसमर्थेनापि । रागात मात्सर्यात, आग्रहादिति यावत् ॥ १७॥ उभी रामलक्ष्मणौ ॥ १८-२१ ॥ इतीति । निमित्तानि शुभशंसीनि । उपपेदिरे प्रादुर्बभूवुः ॥ २२ ॥ नाभिरम्रो प्रवर्तते अभिरग्निं न दहतीत्यर्थः ॥ २३ ॥ २४ ॥ नून मिति । द इनकर्मा भस्मीकरणस्वभावः । अयं हव्यवाहनः । मां तत्किरं माँ यत् यतो नादहत अतस्तां स्पष्टुं नार्हतीति पूर्वेण सम्बन्धः ॥ २५ ॥ त्रयाणां भरत लक्ष्मणशत्रुप्रानां देवतात्वात्तस्यामग्न्यप्रवृत्ती रामभयाचेति भावः ॥ २६ ॥ सर्वत्र प्रभुरपि यत्सेवकत्वान्मे लांगूलं न दहति ततस्तां कथं प्रवक्ष्यति ! ॥ २७ ॥
For Private And Personal
टी.मुं.. स० ५५
।। १५०॥