________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
विस्मयोऽद्भुत एव न इति । अयं विस्मयः अद्भुत एव । 'अद्भुतमाश्चर्य कल्याणं च' इत्युणादिवृत्तिः। यदा विस्मयः आश्चर्यम् । अद्वतः अभूतपूर्व इत्यर्थः। अद्भुतः अद्भुतरसः । तस्य स्थायीभावो विस्मयः। तथा च अद्भुत एव अद्भुतरसता प्राप्त एव महानयं विस्मयः, न विस्मयमात्र इत्यर्थः ॥३३॥ पुनश्चाचिन्तयत्तत्र हनुमान् विस्मितस्तदा। हिरण्यनाभस्य गिरेजलमध्ये प्रदर्शनम् ॥ २८॥ तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि । अपि सा निर्दहेदनिं न तामग्रिःप्रवक्ष्यति ॥२९॥स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् । शुश्राव हनुमान वाक्यं चारणानां महात्मनाम् ॥३०॥ अहो खलु कृतं कर्म दुष्करं हि हनूमता। अग्निं विसृजता ऽभीक्ष्णं भीमं राक्षसवेश्मनि॥३१॥प्रपलायितरक्षःस्त्रीबालवृद्धसमाकुला ।जनकोलाहलाध्माताक्रन्दन्तीवाद्रिकन्दरे ॥ ३२॥ दग्धेयं नगरी सर्वा सादृप्राकारतोरणा । जानकी न च दग्धेति विस्मयोऽद्भुत एव नः ॥३३॥ स निमित्तैश्च दृष्टार्थेः कारणैश्च महागुणैः । ऋषिवाक्यैश्च हनुमानभवत् प्रीतमानसः ॥ ३४॥ ततः कपिः प्राप्त मनोरथार्थस्तामक्षतां राजसुतां विदित्वा । प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ॥ ३५॥ इत्यार्षे
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः ॥५५॥ निमित्तैः दक्षिणाक्षिस्पन्दादिभिः। दृष्टार्थैः दृष्फलसंवादैः । कारणैः सीतापातिव्रत्यरामप्रभावादिभिः । ऋषिवाक्यैः चारणवाक्यैः ॥ ३४ ॥ पूर्व देवीप्रभावात्सिन्धौ मदिनान्तिनिमित्तगिरिदर्शनहेतुनापि देवीमग्निर्न दहतीत्याह-पुनश्चेति । तत्र तस्मिन् समये । विस्मितो हनुमान जलमध्ये सागरान्तर्देशे हिरण्यनाभस्य गिरेः प्रदर्शनं पुनरचिन्तयत् । पतेन पर्वतादीनामपि सर्वेषां रामाज्ञावशवर्तित्वं सूचितम् । तेन सीताया ना तिरिति सचितम् ॥ २८ ॥२९॥
देव्या धर्मपरिग्रहम्, धर्मप्रभावमित्यर्थः । चिन्तयन् हनुमान चारणानां वाक्यं शुश्रावेति सम्बन्धः ॥ ३०-३२ ॥ विस्मयः आश्चर्यम् । अद्भुतः अभूतपूर्व इत्यर्थः alu ३३ ॥ निमित्तैः दक्षिणाक्षिस्पन्दनादिभिः । कारणैः सीतापातिव्रत्यरामप्रभावादिभिः। षिवाक्यैः चारणवाक्यरित्यर्थः । दृष्टाथैः दृष्टफलसंवादेः॥ ३४॥ विदित्वा
स-स: हनुमान् । धर्मपरिग्रहं धारक वाद्धर्मो भगवान् रामः, तत्परिग्रह भार्याम् । चिन्तयन् देव्या विषये चारणानां शुश्राव, वच इति शेषः । धर्मपरिमह रक्षकधर्मसम्पत्ति वा ॥ ३०॥ प्राप्तमनोरथार्थः प्राप्तसीतादर्शनरूपमनोरथफलः ॥ १५ ॥
For Private And Personal