SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir टी...को. चारणवाक्यैर्विदित्वा पुनःप्रत्यक्षं दृष्ट्वा नतः प्रतिप्रयाणाय मतिं चकार, प्रतियास्यामीति सङ्कल्पितवानित्यर्थः ॥ ३९ ॥ इति श्रीगोविन्दराजविरचिते . १५१॥ श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥१५॥ ततस्तु शिशुपागले जानकी पर्यवस्थिताम् । अभिवाद्याब्रवीद्दिष्टया पश्यामि त्वामिहाक्षताम् ॥ १ ॥ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः । भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत ॥ २॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरन यशस्यस्ते बलोदयः ॥३॥ शरैस्तु सङ्कलां कृत्वा लङ्का परबलार्दनः। मा नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्॥४॥ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवत्याहवशरस्य तथा त्वमुपपादय ॥ ५॥ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् । निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत ॥६॥ क्षिप्रमेष्यति काकुत्स्थो हपृक्षप्रवरैर्वृतः । यस्ते युधि विजित्यारीन शोक व्यपनयिष्यति ॥ ७ ॥ एव माश्वास्य वैदेहीं हनुमान मारुतात्मजः। गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ॥८॥ ॥ १॥ प्रस्थित प्रस्थानोद्युक्तम् ॥ २॥ वनभङ्गाक्षवषादिना हनुमतश्शक्ति विज्ञाय असौ रामाय निवेद्य स्वयमेव सकलराक्षससंहारपूर्वकं मम नेता मा भूदित्यभिप्रायेणाह-काममिति । अस्य कार्यस्य सर्वराक्षसवधपूर्वकमत्प्रापणरूपकार्यस्य । बलोदयः सत्त्वप्रकर्षः, सैन्योत्थापनं वा । ते यशस्यः यशस्करः। न तु रामस्येति भावः ॥३॥ तर्हि रामस्य किं यशस्करमित्यवाह-शरैरिति । तत् स्वपराक्रमेण मन्नयनम् । तस्य काकुत्स्थस्य । सदृशम् । एतदेव ममाभिलषितम्, अन्यथा मे कथं वीरपत्नीत्वमिति भावः॥१॥ तच त्वदायत्तमेवेत्याह-तद्यथेति । विक्रान्तं विक्रमणम्॥५-८॥ पूर्व चारविदित्वा पुनः प्रत्यक्षतो दृष्ट्वा ततः प्रतिप्रयाणाय मतिं चकारेति सम्बन्धः ॥ ३५ ॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्वदीपिकास्यायो सुन्दरकाण्ड व्याख्यायो पश्चपञ्चाशः सर्गः ॥ ५५॥१॥२॥ काममिति । अस्य कार्यस्य सर्वराक्षससंहारपूर्वकभप्रापणम्पकार्यस्य परिसाधने न्वमेक एक कामं पर्याप्तः, तथापि IMबलोदयः ते तवैव । यशस्यः यशस्करः, न तु रामस्येति शेषः ॥३॥ तहिं रामस्य किं यशस्करमिन्यवाह-शरैरिति ॥॥ तदिति । विक्रान्तं विक्रमणम् ॥५-८॥ ॥५१॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy