Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पा.रा.भू.
तत्तुल्यशिखः । निर्वाणधूमाकुलराजयः पूर्वपूर्वदग्धभवनाग्निनिर्वाणसमयोत्थितधूमैः व्यातपतयः । अत एव नीलोत्पलाभाः निर्वाणधूमानां नीलवर्णत्वा टी.मुं.का. दिति भावः । अत्राः मेघाः। पुल्लिङ्गत्वमार्षम् ॥ ३५ ॥ अथ रक्षोवचनम्-वज्रीत्यादि । महेन्द्रः वज्रीत्यादि विशेषणं सामर्थ्यविशेषद्योतनार्थम् । उत्तर ..
वजी महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणोऽनिलो वा । रुद्रोऽग्निरों धनदश्च सोमो न वानरोऽयं स्वयमेव कालः ॥३६॥ किं ब्रह्मणः सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य । इहागतो वापधारी रक्षोपसंहारकरः प्रकोपः ॥३७॥ किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः । अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा ॥ ३८ ॥ इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे । सप्राणिसङ्घ सगृहां सवृक्षा दग्धों पुरी तां सहसा समीक्ष्य ॥ ३९॥ ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा । सपक्षिसङ्घा
समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम् ॥ ४० ॥ बाप्येवमेव गतिः । यमकालयोर्मूर्तिभेदान्न पुनरुक्तिः ॥ ३६॥ रक्षोपसंहारकर इत्यत्र आपस्सलोपः । प्रकोपः प्रकोपकृतमूर्तिविशेषः ॥ ३७ ॥ किं । वैष्णवमिति । अत्रायो वाशब्दोऽवधारणे । “वा स्याद्रिकल्पोपमयोरेवार्थे च समुच्चये" इति विश्वः । द्वितीयो वितर्के । अनन्तं त्रिविधपरिच्छेदरहितम् ।। अव्यक्तं चक्षुराद्यगोचरम् । अचिन्त्यं केवलमनसोऽप्यविषयम्। एकम् अद्वितीयं यद्वैष्णवं सुतेजः पूज्यं धाम तदेव स्वमायया स्वासाधारणया आश्चर्यशक्त्या ) कपिरूपमेत्य साम्प्रतमागतं वा इति योजना । वैष्णवमिति स्वाथै अण । विष्णुशरीरान्तवर्तीति वाऽर्थः ॥ ३८॥ विशिष्टाः ज्ञानाधिकाः ॥३९॥४०॥ दग्धभवनात निर्वाणसमयोस्थितधूमैयाकुलपतयः अधाः प्रचकाशिरे इति सम्बन्धः । अभ्रा इति पुंल्लिङ्गत्वमार्षम् ॥३५॥ वजीति । वजित्वत्रिदशेश्वरत्वविशिष्टो ॥१४॥ महेन्द्र इत्यर्थः । रुद्रोऽग्निः रुद्रतृतीयनयनसम्बन्ध्यग्निः ॥ ३६ ॥ ३७ ।। अनन्तं त्रिविधपरिच्छेदरहितम् । अव्यक्तं चक्षुराद्यगोचरम् । अचिन्त्यं मनसोऽविषयम् । एकमद्वितीयम् । वैष्णवं सुतेजः स्वमायया शकल्या कपिरूपमेत्य रक्षोविनाशायागतं किं वेति योजना ॥३८॥ विशिष्टा महाबलाः प्रहस्तादय इत्यर्थः । समीक्ष्य ।
For Private And Personal

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365