Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
उपासकदशाङ्गे
१ आनन्दाध्ययन
द्वादशवतो
चारः
3333333
कथम् ? –'नन्नत्थेति न मैथुनमाचरामि अन्यत्र एकस्याः स्त्रियाः, किमभिधानायाः?-शिवानन्दायाः, किम्भूतायाः? -भार्यायाः, स्वस्येति गम्यते, एतदेव स्पष्टयन्नाह-अवशेष-तद्वर्ज मैथुनविधि तत्पकारं तत्कारणं वा, तथा वृद्धव्याख्या तु 'नन्नत्थ' त्ति अन्यत्र तां वर्जयित्वेत्यर्थः। हिरण्णं ति-रजतं सुवर्ण-प्रतीतं विधि:-प्रकारः, 'नन्नत्थ' तिन-नैव करोमीच्छां हिरण्यादौ, अन्यत्र चतमभ्यो हिरण्यकोटीभ्यः, ता वर्जयित्वेत्यर्थः, 'अवसेसं ति शेषं तदतिरिक्तमित्येवं सर्वत्रावसेयम्, 'खेत्तवत्थु' त्ति-इह क्षेत्रमेव वस्तु क्षेत्रवस्तु के ग्रन्थान्तरे तु क्षेत्रं च वास्तु च-गृहं क्षेत्रवास्तु इति व्याख्यायते, 'नियत्तणसइएणं' ति निवर्त्तनं-भूमिपरिमाणविशेषो देशविशेपप्रसिद्धः ततो निवर्तनशतं कर्षणीयत्वेन यस्यास्ति तन्निवर्तनशतिकं तेन, 'दिसायत्तिएहि' ति दिग्यात्रा-देशान्तरगमनं प्रयोजनं येषां तानि दिग्यात्रिकानि तेभ्योऽन्यत्र, 'संवाहणिएहिं ति संवाहनं क्षेत्रादिभ्यस्तृणकाष्ठधान्यादेहादावानयनं तत्प्रयोजनानि सांचाहनिकानि तेभ्योऽन्यत्र, 'वाहणेहिं ति यानपात्रेभ्यः, 'उवभोगपरिभोग' त्ति उपभुज्यते-पौनःपुन्येन सेव्यत इत्युपभोगो--भवनवसनवनितादिः परिभुज्यते सकृदासेव्यत इति परिभोगः-आहारकुसुमविलेपनादिः व्यत्ययो वा व्याख्येय इति, 'उल्लणिय' ति स्नानजलाशरीरस्य जललूषणवस्त्र, 'गन्धकासाईए' ति गन्धप्रधाना कषायेण रक्ता शाटिका गन्धकापायी तस्याः, 'दन्तवण' त्ति दन्तपावनं-दन्तमलापकर्षणकाष्ठम्, 'अल्ललहीमहुएणं' ति आर्द्रण यष्टीमधुना-मधुररसवनस्पतिविशेषेण, 'खीरामलएणं' ति अबद्धास्थिकं क्षीरमिव मधुरं वा यदामलकं तस्मादन्यत्र, 'सयपागसहस्सपागेहिं ति द्रव्यशतस्य सत्कं कायशतेन सह यत्पच्यते कार्षापणशतेन वा तच्छतपाकम् , एवं सहस्रपाकमपि, 'गन्धट्टएणं' ति गन्धद्रव्याणामुपलकुष्ठादीनां 'अट्टओत्ति चूर्ण गोधूमचूर्ण वा गन्धयुक्तं तस्मादन्यत्र, 'उट्टिएहिं उदगस्स घडएहिं ति उष्ट्रिका-बृहन्मृन्मयभाण्डं तत्पूरणप्रयोजना
॥४॥
Jalt Educati
o
nal
For Personal & Private Use Only
S
anelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 110