Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाच्यो विजयवेगाख्यस्तत्सखश्च, यथा-'त्वया । निशायुद्धेषु संरोधे धार्य वज्रायुधान्तिके ".॥ १०८॥ तेन चाङ्गीकृतादेशः समुत्थाय निजालयम् । जगामानेकदेवार्चाव्यग्रराज्ञीपरिग्रहम् ॥ १०९ ॥ दण्डोङ्गटभुजाकुम्भविद्याः कर्णपिशाचिकाम् । प्रश्नं कारयितुं जुष्टनैमित्तिककदम्बकम् ॥ ११०॥ यथाविधि कृतरनानस्तत्र वारपुरन्ध्रिभिः । कृतावतारणस्तस्थौ क्षणं प्रणयिभिः सह. ॥ १११ ॥ 'चैत्येषु यामः' इत्युक्त्वा निषादिप्रगुणीकृताम् | वशामारुह्य सच्छत्रचामरः सपरिच्छदः ॥ ११२ ॥ ययौ शक्रावतारे,ऽथ कृतपूजः पुरीस्थिताम् । चैत्यावलीं नमस्कृत्य बभ्राम पुरि कौतुकात् ॥ ११३॥ युग्मम् निपीयमानलावप्यो लोचनः पुरयोषिताम् । समाससाद मध्याह्ने भूयो राजनिकेतनम् ॥ ११४ ॥ पट्टमध्यास्य धौतातिः क्षालयित्वा मुखाम्बुजम् । कृतकतिचिद्गण्डूषो ययावाहारमण्डपम्, ॥ ११५ ॥ भुक्त्वा चान्ते सताम्बूलो रम्यहHशिरःस्थिताम् । आरुह्य दन्तवलभी क्रीडाभिरनयदिनम् . ॥ ११६ ॥ रवावस्ताद्रिपर्यस्ते कृतसन्ध्यासुरार्चनः । सारशृङ्गारनेपथ्यः प्रास्थितास्थानमण्डपम्, ॥ ११७ ॥ राजलोकं च सम्भाष्य, विसर्जितसभाजनः । वेत्रधारीभिरुक्तावा शुद्धान्तमगमत्ततः. ॥ ११८ ॥ ज्योत्स्नावदातनेपथ्यां सज्जमाङ्गल्यधारिणीम् । तत्र स्मेरमुखच्छाथां ददर्श मदिरावतीम्. ॥ ११९ ॥ दृष्ट्वा च विकसदृष्टिकृतप्रत्युद्गमस्तया । निवेश्य वामपार्थे तां निविष्टः कनकासने. ॥ १२०॥ कृतावतारणः स्थित्वा नालापैरथ क्षणम्, । सखीजनेषु सव्याज निर्यातेषु निकेतनात् ॥ १२१ ॥ सानुरागं समालोक्य, संश्लिप्य, परिचुम्ब्य च, । तां निनाय नृपः शय्यां, सुष्वाप सहितस्तया.॥ १२२॥
For Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84