Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीतिलक मञ्जरी
॥२३॥
तदतित्वरया गत्वा, स्वदेशं प्रति सज्जय । दृढवर्मचमूनाथ, तातस्यार्पय मद्धनम् , ॥ ६५७ ॥ मातुर्माणिक्यमुक्तादि, पुस्तकानि विपश्चिताम् , । पवित्रभूमावत्रैव देहत्यागं करोम्यहम्." ॥ ६५८ ॥ अथ हाहारवं तत्र विदधत्येव नाविके, । तेनात्मा जलधौ क्षिप्तो लोलकल्लोलमालिनि. ॥ ६५९॥ पतितं तं समालोक्य, सद्यस्तत्सङ्गमेच्छया । प्राकारशिखराज्झम्पामहमप्यम्बुधावदाम् ॥ ६६० ॥ अथ सायं समारूढप्रसादशिखरस्थिताम् । शय्यामधिशयानां स्वामद्राक्ष, जातविस्मया ॥ ६६१॥ श्रीखण्डतिलकस्पर्शादपास्तस्वमविभ्रमा । स्थित्वा विष्टरमध्यास्य ध्यायन्ती तं नृपात्मजम् , ॥ ६६२ ॥ पविश्य सप्रणामाथ सखी मां बन्धुसुन्दरी । अवादीद्, “अद्य दिव्योऽयं तवाकल्पः कुतः सखि ! ॥६६३॥ कथं वा जृम्भिकारम्भः ? कस्माद्वा लोहिते दृशौ । कुतस्तल्पे न दृष्टा च प्रथमायातया मया ?"॥६६४ ॥ "अहं तु मा विधा स्वप्मेऽप्यभिप्रायमिमं सखि !"। इत्युक्त्वा शर्वरीवृत्तं सर्वं तस्यै न्यवेदयम् ॥ ६६५ ॥ निशम्य निर्दृतस्वान्ता साऽपि स्थित्वा ययौ गृहम् । अहं च विस्मयस्मेरा व्यमृशं निजचेतसि. ॥ ६६६ ॥ "तिलकस्यानुभावोऽयं चन्दनस्य, यदेतया । नाहं दृष्टा, तदा तैश्च; हृत्वा नीतेति निश्चिता. ॥ ६६७ ॥ तदोक्तं तेन ' वन्दस्व एनन्मलयसुन्दरि ! | दृग्रहारि हरिचन्दनम् ............." ॥६६८ ॥ पुनरागतया दृष्टा, प्रमुष्टे च विशेषके । " विकल्पोत्थमनैषं तद्दिनं भूपादिना विना. ॥ ६६९ ॥ अन्येार्मामतिम्लानां वभाषे बन्धुसुन्दरी,- । “ मा विषीदः, ध्रुवं भावी सखि ! तत्सङ्गमस्तव. ॥ ६७० ॥ वसुरातवचो व्यर्थ कदाचिन्नैव जायते, । " तदाश्चासनादाहारमथाहमपि नात्यजम्. ॥ ६७१ ॥
AAAAAAACHAASURESMSUNG
13॥२३॥
For Private and Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84