Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobairthorg Acharya Shri Kailassagarsuri Gyanmandir कथा. सार. क मञ्जरी ट्र ॥३०॥ "प्राञ्जलिभर्तृपुत्रि ! स्व . तिलकमञ्जरी । कुमारयुतयागत्यानुग्राह्य मद्गृहं त्वया." ॥ ८६५ ॥ सोवाच-मन्दुरे ! नेदं वनवासिजनोचितम् । गत्वा तत्र कुमारस्तु भवत्वातिथ्यभाजनम् ॥ ८६६ ॥ इत्युदीर्य चकारास्या विसर्जनमथागमत् । मृगाङ्कलेखा, सावोचद-"उचितानुचितैरलम् ॥ ८६७ ॥ भर्तृपुत्रि ! समागच्छ, वक्ति देवी बहि:स्थिता, । "तावदत्र मया स्थेयं यावादार्यासमागमम्" ॥ ८६८॥ ततस्तदाग्रहं मत्वाऽचलच्चतुरिकायुता. । मृगाङ्कलेखाप्याकृष्य पाणौ चालयति स्म माम् ॥ ८६९ ॥ अगच्छदुपान्ते देव्याः, समारुह्य गजप्रियाम् । समं मलयसुन्दर्या जगाम निजमन्दिरम् ॥ ८७०॥ अहं च तद्विमानस्थोऽगच्छं भूरिपरिच्छदः । विद्याधराधिनाथस्य नगरं रथनूपुरम् ॥ ८७१ ॥ पश्यनापातिनिःपातिमत्तस्तम्बेरमाकुलम् । मृगाङ्कलेखयोद्दिष्टं राजमार्ग समन्ततः. ॥ ८७१ ॥ उचे मृगाङ्कलेखा मां-"कुमार ! नगरं दृष्टम् ?" | "दृश्यते यन्न निर्भरं किं दृष्टम् ? ""तन्नदुष्करम्. "॥ ८७२ ॥ खेचरेन्द्रसुतावासवामसनिधिवर्त्तिनम् । मृगाङ्कलेखानिर्दिष्टं प्रासादमगमं ततः ॥ ८७३ ॥ मणिसोपानमाण तस्मिन्नारुह्य काञ्चने । निविष्टस्यासने चक्रे क्रमशौचमसौ मम. ॥ ८७४ ॥ सादरार्पितताम्बूलपत्यग्रकुसुमोच्चया । देव्यास्तिलकमञ्जर्या गतवत्यथ सन्निधिम्. ॥ ८७५ ॥ सा तु प्रविष्टमात्रैव मातुर्मलयसुन्दरी । अदर्शयत्स्वयं चागात् सौधं मदर्शनाशया. ॥ ८७६ ॥ तत्रोदीचीगवाक्षस्था मार्गश्रममिषादसौ । आप्तद्वित्रिसखीयुक्ता दिदेश शिशिरक्रियाम्. ॥ ८७७ ॥ कियत्यामथ वेलायां अवातरदहं पुनः । दृष्ट्वा तच्छ्न्य नासन्नं गृहोपवनमब्रजम्. ॥ ८७८ ॥ &॥३०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84