Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीतिल
कथा
कमञ्जरी
सार..
11४11
बाद सुकृतकर्माभूत् . वनवलेशस्य कारणम्." । इत्थं प्रलप्य सम्मोहं गता काञ्चीपतेः सुता. ॥९८३ ॥ वीजनालब्धचैतन्यां तां चक्रे खेचरेन्द्रजा । अपृच्छक-"तथैवास्ति साकं समरकेतुना ? ॥ ९८४ ॥ संस्तवः किं ? तथा जातः किं बनाय तवापि सः ? । कथयेति " मुहुः पृष्टा सोवाच-"भज मूकताम्, ॥ ९८५ ॥ कुमारवलेशमाकर्ण्य नाहं ववतुमपि क्षमे "| सावादीत-"किमिव वलेशः ? त्वदाश्रमकृतस्थितिः ॥ ९८६ ॥ गवेषयति किं नैव निजमित्रं नभश्चरैः ?"। सहासमवदत्सापि “मुग्धे ! भूगोचरो ह्ययम्, ॥ ९८७ ॥ शृङ्गीव पक्षनिन: स्वैरं खे गन्तुमक्षमः" इत्युक्ता व्योमयात्रायां विमानं पटुरंहसम् ॥ १९८ ॥ खेचराणां सहस्त्रेण मां च प्रहितवत्यसो, । अभ्यधाच-"सहानीकं कुमारहरिवाहनम् ॥ ९८९ ॥ अदृष्टपारसरसस्तीरारामे समानय." । यदादिशति देवीति "संलप्याहमपि क्षणात् ॥ ९९० ॥ चित्रयामोपदिष्टाध्वा वनमेतत् समागमम्, । परिच्छदमवस्थाप्य निःशेषं निकषा नदीम् ॥ ९९१ ॥ उत्सुकत्वादि हायातः स्वयमेकेन वाजिना"। इत्युक्त्वा त्वरितस्तेन विमानस्थः समागमम् ॥ ९९२ ॥ अदृष्टपारतीरस्थमाश्रमं खेचरैर्वृतः, । तत्र लौहित्यवास्तव्यस्कन्धावारो नभश्वरैः ॥ ९९३ ॥ शश्वत्सम्पादितेष्टार्थो दिनान्यस्थां कियन्त्यपि. । एकदा तु सुखासीनं भुक्तान्ते खेचरामृतम् ॥ ९९४ ॥ रत्नकोशाधिकृन्नत्वा शङ्खपाणिरुवाच माम्, । “कुमार ! कोशलेशेन हारश्चन्द्रातपाभिधः ॥ ९९५ ॥ श्रीकरोमिकया सार्द्ध यात्रारम्भे समर्पितः, । मया मदन्तिके कालमेतावन्तमसौ धृतः, ॥ ९९६ ॥ इहाप्यानीत आस्ते, तत्स्वान्तिके क्रियतामयम् "। इत्युक्त्वा भारवरं हारमुचिक्षेप करण्डकात, ॥ ९९७ ॥
॥४०॥
For Private and Personal Use Only

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84