Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीतिल क मञ्जरी ॥४१॥
सार.
PRAKASHARIRAL
अनङ्गरतिनामाहं विद्याधरनृपात्मजः, । निर्वेदाच्चलितस्तूर्णमनुगन्तुमियं च माम् ॥ १०१२ ॥ मुमुक्षति निजप्राणानहं तु द्रष्टुमक्षमः । पुरस्तादेव पिन्सामि" इत्युक्ते पुनरभाणिषम् ॥ १०१३ ॥ "मा मुचः स्वां तनु, सौम्य ! राज्यं स्वीकुरु मामकम् । अन्यश्चेदभिलाषस्ते सज्जस्तस्यापि साधने." ॥१०१४॥ अथासौ मुदितोऽवादीद-" अस्ति मे मन्त्रसहतिः । साध्या वीरनरस्यासौ देवत्ताभिरधिष्ठिता, ॥ १०१५ ॥ तामाराध्यातिविक्रान्तः ऋमिकं देहि मे पदम्." । तद्वचोऽभ्युपगम्याहमात्तमन्त्रो यथाविधि ॥ १०१६ ॥ शिक्षिताराधनोपायो गिरिगहरमाविशम्. । तेनोपनीतपूजादिः, स्नातः सन्ध्यासु निर्झरे, ॥१०१७ ॥ बद्धपद्मासनो बिभ्रदक्षाली दक्षिणे करे । मन्त्रसाधनमाधातुमारेभे,ऽथ क्षपाचराः॥१०१८ ॥ मम सिद्धिविधाताय समाजग्मुः समन्ततः, । "प्रहिताः कोशलेशेन तवानयनहेतवे." ॥ १०१९ ॥ इत्युक्त्वा पुरतो लेखान् प्रणताः केचिदक्षिपन, । केचिदूचुः " मया दृष्टो युवराजोऽभिवर्द्धसे "॥१०२० ॥ केचिदाक्षिपन्"कृपाहीन ! तान्ता तिलकमञ्जरी." | दृष्ट्वा चोत्कटधैर्य मां कोपभ्रकुटिसङ्कटम् ॥ १०२१॥ कृत्वा ललाटमाटोपादाटीकन्त स्फुटायुधा । एवं च षषु मासेषु व्यतीतेषु समर्थिते ॥ १०२२ ॥ पूर्वसेवाविधौ याते स्वल्पशेषे जपाविधौ, । सहसैव स्फुरदेहप्रभापिञ्जरिताम्बरा ॥ १०२३ ॥ एका मुरवधुरेत्य मधुरं मामभाषन । “देहि सत्त्वनिधे ! दृष्टिमष्टो देव्यः समागताः, ॥ १०२४॥ प्रज्ञप्तिरोहिणीमुख्याः सत्त्वेनावर्जितास्तव. । वद कृत्यम्,"अथावोच,-"भगवत्यनुयुज्यताम् ॥ १०२५ ॥ अनङ्गरतिनामायं यदर्थोयमुपक्रमः." । प्रत्यवोचदसौ,-" सौम्य ! पराथैकमतेस्तव ॥ १०२६ ॥
Bh४१५
For Private and Personal Use Only

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84