Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
ततस्त्रपानतोऽवादीदङ्गनाथः "कुमार ! मे । किमुक्तेन, तदाश्वासे यत्नश्चेत्कञ्चिदादिश. ॥ ११४४ ॥ अस्मदागमनोदन्तं ज्ञापय, अहं तु विप्रियम् । तस्याः पूर्वभवात्कृत्वा नास्यं दर्शयितुं क्षमः." ॥ ११४५ ॥ अथ विज्ञापयामास दण्डिनी हरिवाहनम्, । "विजनं क्रियतां देव ! खेचरस्त्वां दिदृक्षते ॥ ११४६ ॥ विचित्रवीर्यप्रहितो द्वारि कल्याणकाभिधः । श्रावयिष्यन् कमप्यर्थ कमनीयतमं तव." ॥११४७ ॥ अथोत्थितेषु तच्छ्रुत्वा सिंहलेन्द्रसुतादिषु । प्रवेशितःप्रतीहार्या नत्वासौ लेखमक्षिपत्. ॥ ११४८ ।। उपनीतासनासीने तस्मिश्च हरिवाहनः । सादरस्तमुपादाय सप्रमोदमवाचयत्,-॥ ११४९ ॥ "स्वस्ति, श्रीमत्रिकूटाद्रेनूपचक्रनतक्रमः । देवो विचित्रवीर्याख्यः स्वःपुरीरम्यताजुषि ॥ ११५० ॥ श्रीमत्यागुत्तर श्रेणी कीर्तिगङ्गाहिमाचलम् । महाराजाधिराजस्य नन्दनं हरिवाहनम् ॥ ११५१ ।। संयोज्य सकलक्षोणिविजयाधिगमाशिषा । सुखयत्युदितानन्दं स्वदेहारोग्यवार्त्तया. ॥ ११५२ ॥ परिकल्प्य वरत्वेन सिंहलाधिपनन्दनम् । मया मलयसुन्दर्याः प्रारब्धोद्वाहनक्रिया. ॥ ११५३ ।। आनीता च निजावासमियं कल्याणभागिनी । तथैव वल्कलच्छन्ना, ज्ञातिलोको निमन्त्रितः ॥ ११५४ ॥ स्थापितं च शुभं, अम्लइत्ययं मदुपक्रमः । न यथा हास्यतां याति, कृत्यं कल्पायुषा तथा." ॥ ११५५ ।। विचार्य चास्य तात्पर्यमुवाच हरिवाहनः,-1 "युवराजः समायातस्तातेन विदितः कथम् ? ॥ ११५६ ॥ कथं चाय वरत्वेनाज्ञातशीलोऽप्युरीकृतः ? । इत्युक्तः सोऽवदद,-"देव ! सर्व वच्मि निशम्यताम्, ॥११५७।। सख्या तिलकमञ्जर्याः समतिक्रान्तवासरे । मृगाङ्कलेखया देवी पत्रलेखाऽभ्यधीयत,-॥ ११५८ ॥
For Private and Personal Use Only

Page Navigation
1 ... 79 80 81 82 83 84