Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीतिल-18
कमजगी ॥४015
"वर्द्धसे युगपदेवि ! द्वतीयीकवरोत्सवे । प्राप्त मलयसुन्दाः " इत्युदीर्य यथाश्रुतम् ॥ ११५९ ॥ उक्तं तिलकमञ्जर्याः देवेनैवाद्यदर्शने । कुमारं समरकेतुं वरीतारं अवेदयत्. ॥ ११६० ॥ इति श्रुत्वाऽवदद्देवी तूर्णं मलयसुन्दरीम्,“ । सख्यानय येन चक्षे विवाहमुभयोरपि" ॥ ११६१ ॥ सा प्रत्युवाच, "देवीदं युक्तं, किन्तु विधेयता । अस्मिन् विचित्रवीर्यस्य ज्ञानिना मुनिनोदिता, ॥ ११६२ ॥ तदादिश तमेवाहं येन गत्वा प्रवर्तये." । तथेत्युक्त्वा तथा सा च व्यधात् सर्वं यथोदितम् ॥ ११६३ ।। तत्सर्वमिति विज्ञप्तं देवादिष्टं मयाधुना, । कुमारः प्रेष्यतां लग्नं प्रत्यासीदति साम्प्रतम् ॥ ११६४ ॥ प्रशान्तवैरादानीता सम्पत्येवातिदुर्बला । तरङ्गलेखा स्पृहयन्त्याशुगन्धर्वकागमम् , ॥ ११६५ ।। युक्तः काञ्चीपतेलोको विद्याधरजनैः सह." । इत्युक्ते समरकेतुमाहास्त हरिवाहनः ॥ ११६६ ॥ सहासमभ्यधाच्चेनमाबद्धकरसम्पुटः, । "चम्पाधिप ! किमद्यापि चिन्तयसि ? उद्यमं कुरु. ॥ ११६७ ॥ अनुतिष्ठ गुरोर्वाक्यम्, अद्यापि त्वयि वीक्षिते । वल्कलानां परित्यागं कर्त्ता मलयसुन्दरी." ॥ ११६८ ॥ इत्युक्त्वा तं सुवेलाद्रौ खेचरानीकसंयुतं । प्रहित्य सायमावासं ययौ स्वं हरिवाहनः ॥ ११६९ ॥ अतीतायां च शर्वयां कृतप्राभातिकक्रियः, । कृतोपचारः सततं चक्रसेनमहीभुजा, ॥ ११७० ॥ प्रेषितराप्तपुरुषैः कृतप्रीतिप्रकाशनम्, । एकदा च जगामैनं द्रष्टुमल्पपरिच्छदः ॥ ११७१ ॥ परापदक्षिणश्रेणिमनेकपुरशोभिताम् । देवतायतनारामसर श्रेणिमनोरमाम् ॥ ११७२ ।। आकर्णितागमेनाथ विहायश्वरचक्रिणा । प्रत्युद्दम्य निजावासं नीतो विरचितोत्सवम् ॥ ११७३ ॥
Phool
For Private and Personal Use Only

Page Navigation
1 ... 80 81 82 83 84