Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उच्चञ्चुभिश्चकोराद्यैराचान्तघनचन्द्रिकम् । “ दृष्टोऽयमथवा स्पृष्टः संस्तुतो वा भवान्तरे !" ॥ ९९८ ॥ अहं त्विति तमाशङ्कय गन्धर्वकमवादिषम्,-1 "देव्यास्तिलकमञ्जर्याः कण्ठकन्दलसङ्गमम् ॥ ९९९ ॥ विहायान्यत्र हारोऽयं सौम्य ! नौचित्यमश्नुते, । तदेनं नय तत्रैव, मुद्रारत्नमिदं पुनः ॥ १००० ॥ कार्य मलयसुन्दयां देवार्चायां कराङ्गलौ" । तमित्युदीर्य पाहैषम्,अन्येाश्च समाकुला ॥ १००१॥ एत्य प्रणम्य लेख मे पुरश्चतुरिकाक्षिपत्. । अहं तु जनितास्वास्थ्यः स्फुरता वामचक्षुषा ॥ १००२॥ विलम्बितं क्षणं लेखमादाय तमवाचयम्,- "स्वस्त्येकशृङ्गे सम्राजस्तनुं श्रीहरिवाहनम् ॥ १००३ ॥ उदीपारदरिदःखा तिलकमञ्जरी । विज्ञापयति 'हारेण हृदयालम्बिनामुना ॥ १००४ ॥ (“ आश्लिष्य कण्ठममुना मुक्ताहारेण हृदि निविष्टेन । रुषैव वारिता मे त्वदुर परिरम्भणारम्भः ॥") रुषेव प्रतिषिद्धो मे परिष्वङ्गस्तवोरसः । तथापि यावज्जीवामि भवदायत्तजीविता ॥ १००५॥ तावन्नैव कुमारेण विरमर्त्तव्या मनागपि." । ततो गाढमनोदुःखदूरोत्तप्तो विसर्य ताम् ॥१००६ ॥ भृगुपातकृताकूतस्तस्मान्निरगमं शनैः, । विजया गिरेः शृङ्गमारुह्याभिमतप्रदम् ॥ १००७ ॥ तीर्थ गवेषयन्मेकमपश्यनृपनन्दनम्, । वसुधाधिपतेः पुत्र्या नवयौवनशोभया ॥ १००८ ॥ धार्यमाणं. कृतानत्या बाप्पालुतकपोलया. | दृष्ट्वा च द्विगुणोद्वेगस्तमाख्यं “किमु कानने ॥१००९॥ इमामेकाकिनी दीनां सौम्य ! त्यजसि वालिकाम् ? । कुत्र वा यातुमिच्छा ते?" स उवाच-"अस्ति पर्वते ॥१०१०॥ इहैव गगनोल्लेखि शिखरं चण्डगह्वरम्, । प्रपाते कामदे तत्र पित्सुः संहारनामनि ॥ १०११ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84