Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उद्गाढस्वपतिभ्रमवासना च नरान्तरे । अबद्धप्रीतिरेवास्थादेतावन्तमनेहसम् ॥ १०८६ ॥ दिव्यहारमतीतेऽह्नि दृष्टः, पूर्वभवस्मृतेः । मुमोह, 'मत्प्रियश्लिष्टः' इति नैव मुमोच तम्." ॥ १०८७ ॥ इत्युक्ते विस्मयस्मेरसंसदभ्यर्थितो मुनिः । ज्वलनप्रभवृत्तान्तमथ वक्तुमुपचक्रमे,-॥ १०८८ ॥ "सोऽप्यत्र भारते वर्षे साकेतपुरभूभुजे । शक्रावतारचैत्यस्थो दिव्यं हारं वितीर्णवान. ॥ १०८९ ॥ ततो नन्दीश्वरं गत्वा वयस्यस्य सुमालिनः । सम्यग्दर्शनसंशुद्धिं चक्रे जिनमतोक्तिभिः. ॥ १०९०॥ कृतकृत्यमथात्मानं मन्यमानो व्यलोकि च । शास्वती सिद्धचैत्याली कुलशैलादिषु स्थिताम् ॥ १०९१ उपाय॑ खेचरेन्द्रत्वभूत्या सह भवान्तरे । प्राप्तिं चरमदेहस्य जातदिव्यायुषः क्षये ॥ १०९२ ।। मयैव दत्तसद्विद्याराधनस्य तनूद्भवः । तस्यैवाऽजनि साकेतस्वामिनो हरिवाहनः." ॥ १०९३ ॥ इत्थं निवेद्य तूष्णीके मुनो तिलकमञ्जरी । अतत्वरत्सुमालिस्थं ज्ञातुं मलयसुन्दरीम् ,-।। १०९४ ॥ कृतवल्कलनीरङ्गी त्रपया प्रश्नमानसम् । विलोक्य तानथारेमे पुनर्वक्तुं तपोधनः-॥१०९५ ।। "सोऽपि वत्से ! विशुद्धात्मावतीर्णः स्वायुषः क्षये । सूनुः समरकेत्वाख्यश्चन्द्रकेतोरजायत." ॥१०९६ ॥ इत्युक्त्वा मुनिरुत्तस्थौ, संविग्नश्च सभाजनः । यथागतं जगामोरुभोगेषु विगताग्रहः ॥ १०९७ ॥ भर्तृपुन्यभिभृत्यौघतत्कालप्रगुणीकृतम् । निजावासं ययौ प्राज्यविराजत्पटमण्डपम्. ।। १०९८ ॥ तस्मिंश्च कल्पनीयान्नं तपःक्षपितविग्रहे । दवा तीर्थातिथिबाते प्राप्ते मध्याह्ने चर्यया. ॥ १०९९ ॥ कृत्वा भुक्तिमुपस्पृश्य सुखासीनां फलादिभिः । कृताहारा वनादेत्य जगौ मलयसुन्दरी,-॥ ११०० ॥
ATHEROHSINESS
For Private and Personal Use Only

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84