Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 78
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री तिलकमञ्जरी कथा सार "स्थातासि त्वं किमत्रैव सखि ! तीर्थान्तरेषु वा । यातासि ?" साभ्यधाद्,-"गात्रं सखि ! मे बाधतेतराम्॥११०१॥ कम्पते दक्षिणं चक्षुर्न जाने कि भविष्यति ?" । अत्रान्तरे प्रतीहारी तां प्रविश्य व्यजिज्ञपत् ॥ ११०२॥ "निजप्रस्थानवेलायां "कुमारं हरिवाहनम् । स्कन्धावारं निजं भद्र ! नय." इत्युक्त्वा विसर्जितः ॥ ११०४॥ यस्त्वया चित्रमायाख्यो भर्तृपुत्रि ! नभश्चरः, । विषण्ण इव स द्वारि दिक्षुरवतिष्ठते." ॥ ११०५॥ तच्छ्रुत्वा साध्वसाद्देवी न किमप्युत्तरं ददो. । गिरा मलयसुन्दः स प्रविश्यानतोऽब्रवीत,-॥ ११०६ ॥ "भर्तृपुत्रि ! त्वदादेशादेकशृङ्गगिरौ मया । कुमारः सर्वतोऽन्विष्टो, न तु कापि विलोकितः. ॥ ११०७ ।। झातुं तथापि तद्वात्ती नियुक्ता दिक्षु खेचराः । तच्छृत्वा सहसा देवी विच्छायवदनाभवत् ॥ ११०८ ॥ अवोचदर्थ सन्तप्तस्वान्ता मलयसुन्दरी,- "अन्वेषय स्वयं गत्वा सखि ! तं नृपनन्दनम्, ॥ ११०९ ॥ असो त्वदगमनं श्रुत्वा न जाने किं व्यवस्यति !" | तन्निशम्प विमानेन द्रुतं तत्र जगाम सा. ॥ १११० ॥ भवन्तं चिरमन्विष्य तदेव जिनमन्दिरम्. । सायं प्रापदपश्यत्सा सोद्वेगं मत्परिच्छदम् ॥ ११११ ॥ कृतप्रणामा तेनासो दूरस्थैव जिनस्तुतिम् । कृत्वा मलयसुन्दर्या सहागान्मठमस्तकम् ।। १११२॥ तस्मिन् शिलातलन्यस्तनिःसहाङ्गी सखीकृता । गाढदाहज्वरोत्तप्ता कथश्चिदनयन्निशाम् ॥ १११३ ॥ प्रातरावश्यकं कृत्वा निविष्टा देवतागणे, । "वेत्ति कश्चित्कुमारस्य वृत्तम् ? "इत्यवदत्स्वकान्. ॥ १११४ ।। अथ सन्दीपनो नाम खेचरः प्रणतोऽब्रवीत, । "देव्यहं चित्रमायेन प्रहितः प्राक्तनेऽहनि, ॥ १११५॥ मया चान्विष्यताश्रावि निपादेभ्यो, यथा-"किल । गतः कुमारो वैताढ्यप्रपातं सार्वकामिकिम्." ॥ १११६ ॥३८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84