Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यक्षं महोदरं वेत्सि शान्तायतनवासिनम् ? । कियद्वा ते स्वयं वच्मि ? पञ्चशैलजिनालये ॥ ९३८ ॥ प्राकारात्पतिता वादी येयमुत्तारिता मया । स्थापिता च निजे स्थाने, सा तावद्गतचेतना ॥ ९३९ ॥ तिलकान्तर्हितां योऽपि मन्वानः प्रेयसी हृताम् । तत्रैव पतितो नीतः मोत्क्षिप्य सपरिच्छदः ।। ९४० ॥ स्वकीयशिविरं सोऽपि कुमारोऽत्र न सन्निधौ । तदरे क्रूरकर्माहं ? न त्वं ? यः पृथुलेऽम्बरे ।। ९४१ ।। मार्गान्तरं विहायास्य शक्रैरपि कृतस्तुतेः । देवताकृतनिष्पत्तेरादिदेवस्य वेश्मनि ॥ ९४२ ॥ शृङ्गाग्रेणास्थितो यानं यातुं वाञ्छसि लीलया । तदितः पक्षविक्षेपा देवतावेश्म लङ्घनम् ॥ ९४३ ॥ स्वैरं यदि परं कर्तासि, आत्मीया प्रकृतिः पुनः । मत्स्वामिन्याः प्रसादेन नान्यथा ते भविष्यति " ॥ ९४४ ॥ इत्युक्त्वा दत्तहुंकारो यानं सरसि चिक्षिपे । निमज्ज्योन्मशत्रत्यत्र शुकभावमुपागमम् ॥ ९४५ ॥ अमुक्तः प्राक्तनरमृत्या तत्रैवास्यां जिनालये, । नीतो मया यथा लेखः, प्रतिलेखो यथाहृतः ॥ ९४६ ॥ कुमाराङ्कं यथास्तथा सर्व स्मराम्यहम् । अभूदस्तविषावेगा कथं मलयसुन्दरी ? ॥ ९४७ ॥ पुंस्त्वं वा मे कथं जातमेतदज्ञातमत्र मे. " । तस्मिन्नित्युक्तष्टत्तान्ते, विस्मिते सकले जने ॥ ९४८ ॥ उद्वेष्टयावाचयं लेखं तं तदानीतमादरात् । "स्वस्त्यभीष्टतमोद्देशे सर्वविश्वोपकारिणः ॥ ९४९ ॥ हरिवाहनसंज्ञस्य राजमूनोः पदद्वयीम् । लोहित्यसविधावासात् स्कन्धावारात्सराजकः ॥ ९५० ॥ कुशली कमलगुप्तो नत्वा विज्ञापयत्यदः - 1 " लेखेन यत्समाइतं यदन्यदपि सङ्गतम् ।। ९५१ ।। तदात्मनैव कर्त्तास्मि सर्व राजप्रयोजनम् । किन्तु प्रतिविधातुं मे स्नेह एवातिदुष्करः ।। ९५२ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84