Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री तिलक मञ्जरी ॥३७॥
S****480*
तमवोचमथ श्रान्तं " वस्त्रायविषये त्वयि । स्वाधीनफलसम्पत्तौ भद्रातिथ्यं करोमि किं ? ॥ ८९४ ॥ तथापि कुरु मे तोषम् " इत्युक्त्वांङ्के न्यवेशयम्. । शय्यापाली ततो देव्याः कुन्तलेति समाययो, ॥ ८९५॥ अभ्यधाच्च-“कुमार ! त्वां देवी विज्ञापयत्यदः, “मृगाङ्कलेखयाऽऽख्यातं मम त्वत्तोऽभ्युपेतया ॥ ८९६ ॥ यथा “पुरमलक्ष्यात्मा कुमारोऽय दिक्षते" | तनिशीथाभिधं दिव्यं पावृणु त्वमिमं पटं, ॥ ८९७ ॥ अयं पद्महदं द्रष्टुं गतायाः पद्मया मम । उपनीतो, अनुभावोऽपि कियानप्यस्य वर्णितः, ।। ८९८ ॥ यथा “संवृतमेतेन देहिनं नेक्षते जनः, । अहिधाराविषव्याधिरक्षःशक्तीश्च हन्त्ययम् , ॥ ८९९ ॥ किचैप स्पर्शमात्रेण दीर्घशापक्षयङ्करः" । इत्युक्त्वाच्छादयामास सर्वतस्तेन मत्तनुम्. ॥ ९००॥ सहसाथ मदुत्सङ्गादिव्यमुक्षिप्य तं पदम् । ममाग्रतः पुमानेको बभूवोदग्रयौवनः ॥ ९०१॥ अथ “गन्धर्वको गन्धर्कः" इत्याप्तविस्मयैः । उदघोषि वधृवृन्दैः, असौ तु वलिताननः ॥ ९०२॥ प्रकटं पटविश्लेषात् समालोक्थादरेण माम् । अनंसीदसमोल्लासिविस्मयस्मेरलोचनः ॥ ९०३ ॥ “विनष्टः' इति यो देवि ! शोचितः सुचिरं पुरा । गन्धर्वकः, स निर्यातः कुमारकोडतोऽधुना." ॥९०४ ॥ इति प्रचलच्चेटीभ्यः श्रुत्वा सम्पन्नविस्मया । समं मलयसुन्दर्या देवी तत्र समाययौ. ॥ ९०५ ॥ कृतप्रत्युद्गमा यत्नान्मया परिजनाहृते । ततः सविभ्रमब्रीडं हेमपीठे न्यविक्षत. ॥९०५॥ मामालोक्य स्फुरत्तोषं पुरतो विहितानतिम् । आकृष्यार्यापदाम्भोजे गन्धर्वकमपातयत् ॥ ९०६ ॥ अथावोचं " प्रसादस्ते पटोऽयं देवि ! तत्क्षणम् । मम बन्धुसमं सद्यो गन्धर्वकमयोजयत्." ॥ ९०७ ॥
*********
ल॥३७॥
For Private and Personal Use Only

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84