Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऐक्षे च दारवीयस्य प्रासादस्यान्तरे स्थिताम् । स्वपट्टांशुकसंछन्नामेकामम्भोजतन्पगाम्. ।। ७६२ ।। दत्तदृष्टिः पुरोभागे प्लवमान निकेतनम् । सरस्यदृष्टपारेऽस्मिन् दृष्ट्वा विस्मयमावहम्. ॥ ७६४ ॥ पुनः कत्तुं तनुत्यागं सर:पातकृतोद्यमा । तेनैव पट्टवस्त्रेण वघ्नन्ती गात्रिकामहम्. ॥ ७६५ ॥ ताडीपत्रमय लेखमपश्यं बद्धमञ्चले । उद्वेष्टय कोतुकेनाथ स्वैरमवाचयम्. ।। ७६६ ॥ . " स्वस्ति, राजाधिराजस्य चन्द्रकेतोः पदाम्बुजे । अलिना युवराजेन नाम्ना समरकेतुना ॥ ७६७ ।। श्रीकाञ्च्यां द्रविडाधीशवंशकैरवचन्द्रिका । निर्वाप्यते निजक्षेमज्ञप्त्या मलयमुन्दरी, ॥ ७६८ ॥ सुभ्र ! कामोत्सवे रात्राबुद्याने तत्र निर्जने । स्मरामि सततं तत्तत्तव विश्रम्भचेष्टितम्. ॥ ७६९ ॥ किश्च विज्ञाप्यतेऽत्रैव साश्लेषं बन्धुसुन्दरी-1 'जितेऽपि द्विपि देवेन कृतो मे न मनोरथः ॥ ७७० ।। [ श्रुत्वात्यद्भुतमस्मदाजिललितं वैतालिकेभ्यः प्रगे प्रीतात्काञ्चीनराधिपात्तव सखीं प्राप्यादरमार्थिताम् । वोढास्मीति मनोरथः रथगयतो वाच्यं तदा योऽभवन्नाऽधन्यस्य जितेऽपि विद्विपि स मे दैवेन संपादितः ॥]" अथ निश्चित्य जीवन्तं प्रियं किञ्चित्प्रमोदभाक । यावत्तिष्ठामि तद्वेश्म तावत्तीरं तरद्गतम् ॥ ७७१॥ ततोऽवतीर्य शौचान्ते कृतदेचिनाविधिः । द्विवानुगायुतामैक्षे नारी परिणताकृतिम् ॥ ७७२ ॥ सा मामाभाषयामास-"वत्से ! मलयसुन्दरि! । कुतस्त्वमिह ? किंचैका ? किमेतत्तव वल्कलम् ?" ॥ ७७३ ॥ अथ श्लिष्टवती गाढमाविर्भूताश्रुसन्ततिः । चिन्तयन्त्यहमप्येनां चित्रलेखेत्यवागमम्. ॥ ७७४ ॥ अत्रान्तरे सितच्छवश्रेणिछन्ननभःपथा। महिषी चक्रसेनस्य सर्वखेचरचक्रिणः ॥ ७७५ ।। 55PESAKALA For Private and Personal Use Only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84